किं पुन: सामान्यसिद्धौ मानम् ? गौरित्यभिन्नाकारोऽनुभव इति चेत् । न । विकल्पानुपपत्तेः । तथा हि कोऽयमभेदावसाय: ? किमेकव्यक्तिवव्यक्त्यन्तरे गौरित्यवभासः, [१] उत व्य क्त्तीनामेकगोस्वभावतावभातः, एकधर्मवत्तयावभासो वा । नाद्यः ? [२]
एकव्यक्तेर्गोस्वभावतावव्यत्यन्तरस्यापि गोस्वभावत्वादेवोप-
न्यायलीलावतीकण्ठाभरणम्
अभिनेति । विलक्षणेषु व्यक्तिभेदेषु गवाकारानुगतप्रत्ययवेषय एव गोत्वमित्यनुभव एव प्रमाणम्, तद्न्यथानुपपत्तिर्वेत्यर्थः । एकव्यक्तेरिति । शबलादीनां सर्वासामेव गो-
न्यायलीलावतीप्रकाशः
गौरितीति । व्यक्तीनाम्मानत्यान्न ततस्तदुपपत्तिरित्यर्थः । एकव्यक्तिवादेति । वतिप्रत्ययेन व्यक्तिज्ञानयोः सादृश्यमभिधीयते तच्च विषयेनिरूप्यमतोऽनुगतस्थ विषयस्य गोत्वस्य सिद्धिरित्यर्थः । एकव्यक्त्तेरिति । गोत्ववृत्तिकारणत्वं गोत्वजात्यङ्गीकारेप्युपाधिनावच्छेत्तव्यं गोत्वस्य स्वावृत्तित्वातू, तथा च गोस्वभावोऽलाधारणो गोत्वव्यञ्ज-
न्यायलीलावतीप्रकाशविवृतिः
व्यक्तिज्ञानयोरिति । शबल धवला गोचरयोर्ज्ञानयोः लादृश्यमेकं विपंथत्वमेव, तत्र व्यक्तेरे कत्वमसम्भावित मे वेत्येकत्वलिद्धिरित्यर्थः । अत इत्यनन्तरमनुगतप्रत्ययकारणत्वेन चेति शेषः । तेनोत्तरव्याख्यासङ्गतिः । गोस्ववृत्तीति । गोत्वनिष्ठज्ञान कारणत्वमुपाधिनैदावच्छेद्यं गोत्वस्य जात्यन्तरस्य वा तदवृत्तित्वात्, तथाच सास्नादिमत्त्मेव व्यक्तिनिष्ठमनुगतप्रतीतिकारणतां किन्नावच्छिन्द्यादित्यर्थः । क्वचिज्ज्ञानावृत्तित्वादिति पाठः । स तु ज्ञानवृत्तिकारणत्वमिति पूर्वफक्किकापाठपक्षे बोध्यः । तस्य च ज्ञानस्य व्यवहारकारणत्वं यथा गोज्ञानत्वेनोपाधिना ऽवच्छेद्यं तद्वदनुगतप्रतीतिकारणतामपि सास्नादिमत्त्वमुपाधिरवछियादित्यर्थः । क्वचित्तु गोत्ववृत्तिकारणत्वमित्येव पूर्वफक्किकापाठः, गोत्वस्य तत्रावृत्तेस्तज्ज्ञानावृत्तित्वादिति तूत्तरफक्किकायां पाठः । स चैवं योजनीयः गोत्ववृत्तिकारणत्वमनुगतमतिका-