सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/७६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६८२
न्यायलीलावती


त्सिद्धम् कारणजातिवियमं विना कार्ये तदनुपपत्तेः । न च रेचनेऽप्ययं दोषः । तत्र वाधवलेन जातेरपास्तत्वात् । अवि-


न्यायलीलावतीकठाभरणम्

सम्धिईश्यते हस्तादिषु तत् लम्बद्धजु च मुपलादिषु सुर्द्ध्वदेशावच्छे देन नियतसंयोगजनकरपमधोदेशावच्छेदेन च नियतविभागजनकत्वं प्रतीत्य हस्तमुतक्षिपति मुषलमुत्क्षितीति प्रत्यथः । एवं हस्तेचाधो नीयमानेऽवक्षिपतीति प्रत्ययः । एवं वस्त्रं संकुचति चर्म्म संकुचतीति धीः । एवं चर्म्म प्रसरति वस्त्रं प्रसरतीति धीः । एवं पशुमनुजविहंगम सरीसृपादिषु नियतदेश संयोग विभागयोरपलम्मानियतदेशसंयोगविभागलक्षण कार्यकारित्वात् गच्छतीति धीस्तथा च कार्प्यानुगमप्रत्यय नुगमौ। जातिमन्तरेणानुतपद्यमानाबुत्क्षेपणत्यादि-

न्यायलीलावतीप्रकाशः

कम् । न चावयवाकुञ्चनेनावयविनि संगोगोत्पादस्तत्राकुञ्चन्त्वं नास्त्येवेति वाच्यम् । अवयवावयविनोः संकुचतीतिप्रतीतावविशेषात् । एवं निष्क्रियावयवानभिमुखविरुद्ध नानादिकसंयोगजनककर्मत्वं प्रसारणत्वव्यवस्थापकम् । अत्राप्यवयवावयविनोः प्रसरतीत्य बाधितप्रतीतिबलान्नावयवकर्मणान्यथासिद्धिः । तिर्यक् संयोगजनककर्मत्वं च गमनस्वव्यवस्थापकम् । न चैवं पूर्वादिदिक्संयोगजनकत्वादिनापि जातिः सिद्धयेत्, पूर्वादीनां तिर्यकप्रभेदत्वात् । नम्वेवं रेचनत्व प्रवेश नत्वादिकमपि जातिः स्यात् बहिःसंयोगजनकत्वान्तः संयोगजनकत्व योर्व्यवस्थापकयोः सत्वादित्यत आह न चेति । गमनत्वं कर्मत्वव्याप्यं

न्यायलीलावती प्रकाश विवृतिः

नचेति । अवयव संयोगद्वारेति शेषः । अवयवावयविनोरिति । न च भ्रमरूपा परम्परासम्बन्धावगाहिनी वा प्रतीतिरिति वाच्यम् । बाधकाभावात्, परम्परासम्बन्धकल्पने च गौरवात् । यत्तु - अवयविनि तदा कर्मोत्पादे निःक्रियावयवेति विरुद्धं यावदवश्वकर्मोत्पादे व्याप्तत्वादवयविकर्मोत्पादस्यान्यथा कर्मणोऽव्याप्यवृत्तिनापत्तिः । नहि भवाते निष्कम्पोऽवयवोऽवयवी च तदवच्छेदेनापि सकम्प - इति मतम् । तदयुक्त' निः क्रियेत्यादेरेवान्यथा व्याख्यानात् । एवमिति । अत्रापि निःक्रियत्वं विरुद्धदिगभिमुख क्रियाशुन्यत्वमेव । आकुञ्चनव्यावर्त्तनायानभिमुखे-