उत्क्षेषणत्वादिकं चानुगत प्रत्ययनियतजातीयसंयोगजनकत्वा-
न्यायलीलावतकिण्ठाभरणम्
त्क्षेपणाविजातित्वे कि प्रमाणमत आह उत्लेषणत्वादिकं चेति । अयमभि-
न्यायलीलावतीप्रकाशः
अन्यत्र वाद्यादौ तिर्यपतनमपक्षेणमेव ।
उत्क्षेपणत्वादीनां जातित्वव्यवस्थापकमाह उत्क्षेपणत्वादिकं चेति । ऊर्ध्वदिक् संयोगाद्यवच्छिन्नानुगत कार्यश्य कारणानुगतरूपं विनाऽनुपपत्तेरसति बाधके तेषां जातिरूपत्वमित्यर्थः । ऊर्ध्वदिक्संयोगत्वं चोपाधिरूपमपि बाधकामावात्कार्यतावच्छेदकम् नीलघटत्वादेश्च तश्वे बाघकमस्ति । न चोत्क्षेपणेप्यूर्ध्व गच्छतीति प्रतीतिबलाद्द्वमनत्वसाङ्कर्यं बाधकमेव, तत्र गमनत्वाभावात् तव्द्यवस्थापकस्य तिर्थक्संयोगजनकत्वस्याभावात, गच्छतीति प्रतीतिप्रयोग योश्चलनमात्रविषयत्वात् । तथापि यत्र किञ्चिदूर्ध्व किञ्चिञ्च तिर्यक् चलति तत्रोत्क्षेपणत्वगमनत्वयोः सङ्करो दुवीर इति न वाव्यम् । तत्रैकस्याः कर्मव्य क्ते रुर्ध्वतिर्यक् संयोगजनकत्वाभावात्, कर्मव्यक्त्तीनां नानात्वेनोत्क्षेपणात्मिकायास्तस्या ऊर्ध्वसंयोगजनकत्वात् गमनात्मिकायाश्च तिर्यक्संयोगजनकत्वात् । एवमधः संयोगजनकत्वमवक्षेपणत्वव्यवस्थापकम् । निष्क्रियाव्यवाभिमुख संयोगजनकत्वमा कुञ्चनत्वव्यवस्थाप-
न्यायलीलावतीप्रकाश विवृतिः
तिर्यपतनं तिर्यक् संयोगत्वाद्गमनमेव वक्तुमर्हम्, तथापि यत्राधस्संयोगजनकमेव वाद्यादिकर्म तत्रैवमन्यत्र तु गमनमिति भावः । ऊर्ध्वदिक्संयोगित्वं चेति । ऊर्ध्वं क्षिपत्यधः क्षिपतीतिप्रतीत्योः परस्परविरुद्धविषयत्वादनुगतत्वाञ्च जातिविशेषविषयत्वे तज्जातिनियामकत्वेन ऊर्ध्वसंयोगित्वादि कमुपाधिरूपमध्यवच्छेदकं कल्प्यते बाघकाभावादिति भावः । पततीत्यादिप्रतीतीनां तु न जातिव्यवस्थापकत्वं जातिलङ्करापत्तेरिति ध्येयम् । निःक्रियावयवेति । विरुद्ध दिगभिमुखक्रियाशून्यावयचेत्यर्थोऽन्यथावयविसंकोचेऽवयवकर्मावश्यकत्वात् परस्पराभिमुख क्रियावदवयवाश्रितावयविनि संकुचतीति प्रतीतेश्चासङ्गत्यापचैरिति भावः । तदुपादानप्रयोजनं च यत्राधःपत्राभिमुख मेव मध्यपत्रावच्छिन्नात्रयविसंयोगो विकाशे तत्रातिव्याप्तिवारणम् ।