सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/७५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६७५
स्थायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भालित


न च स्वरूपमात्रं, पृथक्त्व विलयात् । निद्रालंभवात् मध्यत्वसंभवाच्च । दयादयक्ष्च, यतो मृदुसरान्तरता मचाते [] । न चैतद दृष्टमात्र हेतुकम्, गुरुत्वसंस्कारविलयादित्यास्तां कृतं विस्तरेण इति चेव ।

 अत्रोच्यते । नेच्छामीत्यरुचिनिरूपणात् । आतुरस्य उष्णे द्वेषवर्तमानतानुभवे ऽपीच्छायां सुखीत्वनुभवात् । नाप्यालस्यम् 'अलसो निःप्रयत्नो निरुत्साह' इति परमकोपकारवचनाद्यत्नाभाव एव तच्छब्दव्यवहारात् । तमोवद्विधित्वेनाभासमानत्वस्या न्यथासिद्धत्वात् । नापि लघुत्वम् गुरुत्वापकर्ष एव तव्यवहारात् । ज्वलनोद्गमनस्यादृष्टहेतुकत्वात् । गुरुत्वप्रतिबन्दीग्रहस्तु पूर्वमेव निरस्तः । नापि काठिन्यम्, अकठिनैरपि तन्तु

न्यायलीलावतीकण्ठाभरणम्

गुरुत्वसंस्कारेति । पतनमिष्वादिगतिश्चादृष्टादेव स्यात् किन्तु गुरु त्वेन वेगेनेत्यर्थः । आस्तामिति । मदमानद्दष्ठान्त लोभस्पृहासूयेष्यीद्रोहक्रोधादिसम्भवादिति भावः । नेच्छामीति इच्छालमभिव्याहारवशादिच्छाया एवाभावोऽरुचिः प्रतीयत इत्यर्थः ।

 द्वेषस्य दुःखाद्भेदमाह - आतुरस्येति । तमोवदिति । नहि नञोऽप्रयोग इत्येव विधित्वमित्यर्थः । अर्काठिनैरपीति | कारणगुणमन्तरेण तु

न्यायलीलावतीप्रकाशः

 द्वेषस्य दुःखाद्भेदमाह आतुरस्येति । तमोवदिति । यथा तमस्ति नञशब्दप्रयोगाभावमात्रेण विधित्वासिमानस्तथा प्रकृतेपीत्यर्थः । गुरुत्वाकर्ष इति । गुरुत्वापकर्षोऽत्र गुरुत्वाभावस्तेन तेजसि न विरोधः । कारणगतकाठिन्येन कार्यगत काठिन्यमारब्धव्यमिति कारणे तद भावात् कार्ये तदभावः स्यादित्याशयेनाह अकठिनरपीति । क्वचित्सं

न्याय लीलावती प्रकाश विवृतिः

अपृथक्त्वं चेति मूलम् | क्सनैवोपपत्तेरिति भावः । अत एवास्वाधिकरणनिरूप्यम्, आश्रयनिरपेक्षस्यैव स्मर्यमाणपृथक्त्वस्य ग्रहणा-


  1. यतो मृदुतरा भवन्ति - इति मु० पु० पाठः ।