सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/७४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६७०
न्यायलीलावती


न्दीग्रहस्त्विन्द्रिय सम्बन्धविच्छेदेनापि तत्प्रतिसन्धानाधूमानुमानसिद्धिन्यायेन निरसनीयः ॥

 स्फोटात्मा शब्दो नाम्बरगुण इति चेन तदसिद्धेः : []एकं पदमिति वीरनेकवर्णव्यावृत्तात्मान मेकपटबुद्धिवदेकार्थ क्रियाप्र-

न्यायलीलावतीकण्ठाभरणम्

स्थादित्यत आह रसानुमानेति । अस्लं जम्बीरमिति यत्र श्रूयते तत्र तेन रसेन रूपानुमानं स्यादित्यर्थः । यत्र वा मानान्तरं नोपनायकमि त्यपव्याख्यानं क्षणिकताया अतदर्थत्वात् ।

 अर्थे स्फुटयतीति म्फोटः, स च द्विविधः पदम्फोटो वाक्यस्फोटश्चेति वर्णगत एवासाविति शब्दमात्रस्य नाम्बरगुणत्वमित्याशंकते स्फोटात्मेति । शब्दवृत्तिः शब्दो नास्त्येवेति परिहरति नेति । नन्वर्थप्रतीत्यन्यथानुपपत्त्यैवासाबङ्गीकार्य्यः वर्णानां प्रत्येक मिलितानाम्वा

न्यायलीलावतीप्रकाशः

षाहमास्पदत्वेन गृह्यते तथानाषीत्यर्थः । यत्र मानान्तरोपनीतं न स्फुरति तत्रानुमानमित्याह रसानुमानेति ।

 "सर्वेषां शब्दानामाकाशगुणत्वमिति" शास्त्रे व्युत्पादितमाक्षिपति स्फोटात्मेति । शब्दत्वं शब्दोपादानवृत्ति नवेति म्फोटसंशयः । एकमिति । एकं पदमिति धीः सर्वानुभवसिद्धा न तावद्वर्णानामनकत्वात् । न च वर्णेष्वेकार्थज्ञानजनकत्वौपाधिकी सा उपाध्यननुस न्धानेऽपि जायमानत्, अतो यस्तस्या विषयः स एव स्फोट इस्यर्थः । एकपटबुद्धिबदिति । यथैकः पट इति बुद्धिरेकं पटमित्यर्थः । ननु

न्यायलीलावतीप्रकाशविवृतिः

ऽजन्यत्वं तदाऽसिद्धिरथानेकद्रव्यासमवेतत्वं तदा द्रव्यत्वविशेध्यासिद्धिरित्यपि द्रष्टव्यम् ।

 स्फोटाप्रसिद्ध्या संशणभावेन कथं विचार इत्यत आह--- शब्दत्वमिति । एवञ्च वर्णोपादानकः पदोपादानकः वाक्योपादानकः स्फोटो मन्तव्यः । न च वर्णे किमर्थ तत्स्वीका-


  1. एकमित्यादिः ‘अप्रतीरित्यन्त पाठो कण्ठाभरणमते 'गुणोनित्यश्चेति' ग्रन्थस्यानन्तरं पठनीयस्तषैव तघाएयानात् । स्नं० ।