मौमस्यापि गुरुत्वस्य ध्यामादेरत्यन्तातल संयोगेऽप्यनुच्छेदात् ।
सुवर्ण चाद्रुततेंजमं अत्यन्मानलसंयोगऽप्यनुच्छिमानानित्यद्रवत्वाधिकरणत्वान्, न यदेवं न तदेवम् यथा क्षित्यादिकम् ।
भौममपि द्रवत्वं स्नेहवदौपाधिकं स्यादिति चेत् । न । काचादिषु
द्रवत्वेऽपि संग्रहाभावात् । आप्यत्वे तु संग्रहाते: [१]। द्रवत्वं विहाय
स्नेह एव स्यन्दननिदानमस्त्विति चेन्न । तदुत्कर्षेऽप्यनुरकर्षात् ।
नहि घनीभूतघृतादिकमपेक्ष्य चिरस्यन्दि जलं, जलापेक्षया चाशीघ्रस्यन्दि घृतम् ॥ इति द्रवत्यम् ।
न्यायलीलावतीकण्ठाभरणम्
मादन्यत्वात् । गुरुत्वस्याभौमत्वसाधके हेतो व्याभिचारमाह भौमस्यापीति । श्याम इष्टकाविशेषो ध्यान इति प्रसिद्धः । द्रवत्वेति । द्रवत्वाधिक रणत्वे सति तैजसत्वमित्यर्थः । नैमित्तिकद्रवत्वं क्षितितेजसोरिल्याक्षिपति भौममपीति । काचादिध्विति । काचादौ पार्थिवे यद्यद् द्रवत्वं तत्तदाव्यं स्यात् संग्रहकारि स्यादित्यर्थः । द्रवत्वात् स्यन्दनमिति मूलमाक्षिपति द्रवत्वं विहायेति । स्नेहमात्रं यदि स्यन्दनकारि स्यात्तदा न घृतादधिकं स्यन्दनं स्यात्, तथाच न स्यन्दनं स्नेहासमवायिकारणकं तदुत्कर्षाननुविधायित्वात् रूपवदित्याह तदुत्कर्षेऽपीति । तदेवाह नहीति | ननु शैथिल्यवत्द्रवत्वमपि संयोगभेद: स्यादिति चेन्न । जले जलान्तरमिश्रणे संयोगबुद्ध्यभावेऽपि द्रवत्वधीसत्वात् ।
न्यायलीलावतीप्रकाशः
माह भौमस्यापीति । ध्याम इष्टिकाविकारविशेषः । औपाधिकं आध्यमित्यर्थः । आप्यत्वे त्विति । स्नेहसमानाधिकरणद्रवत्वस्य सङ्ग्रहजनकत्वादित्यर्थः । तदुत्कर्षेपीति । न हि यदुत्कर्षेऽपि यत्रोत्कृप्यते तत्तदसमवायिकारणमित्यर्थः । ननु संयोगविशेष एव शिथिलादिबद्रवत्व-
न्यायलीलावतीप्रकाशविवृतिः
मत उक्तं साक्षादिति । तदुत्कर्षेऽपीति मूलम् । इदमुपलक्षणं तथासति द्रुतकाचादे: स्यन्दनं न स्यादित्यपि द्रष्टव्यम् । न हीति । स्वलमवायीति
- ↑ तत्संग्रहमसप्रस्नरिति प्रा० पु० पाठः ।