सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/७२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६४२
न्यायलीलावती


त्वात् जलपरमाणुवत् । गुरुत्वमध्येवमभौमं स्यात् अत्यन्तानलसंयोगेऽप्यनुच्छ्यिमानत्वादिति चेत् । न । गुरुत्वस्याभौमस्य स्वाश्रयसजातीयव्यापकत्वनियमात् तेजोमात्रे गुरुत्वप्रसङ्गात् ।


न्यायलीलावतीकण्ठाभरणम्

च्छिद्यमानं चेत् पार्थिवं तदेवमित्यर्थः । अभौमस्येति धूमादौ व्यभिचारवारणार्थम् । न च तत्राप्यलंधूमदशायां गुरुत्वमिति वाच्यम् । तस्य धू-

न्यायलीलावतीप्रकाशः

तदर्थः, तथापि वृताव्यविनि व्यभिचार एव । मैवम् । एतस्य तेज स्येव निरासात् । गुरुत्वस्येति । अभौमस्येति विशेषणे न सर्वत्र भूमौ गुरुत्वमभिप्रेतं धूमे तदभावात्, अन्यथाऽवनमनापत्तेः, अलंधूमस्य चावनतिमतो धूमादन्यत्वात् । स्वाश्रयेति । अभौमं गुरुत्वं अगुवृत्तिद्रव्यत्वसाक्षाद्याव्यजातिसमानाधिकरण मेवेत्यर्थः । अनैकान्तिकत्व-

न्यायलीलावतीप्रकाश विवृतिः

क्त्तव्यभिचारः । अत एव च न पूर्वाभेद इति ध्येयम् । तथापीति । वैशेषिकमते अवयविनि पाकानभ्युपगमेन स्वरूपयोग्यताया अप्यभावादिति भावः । तेजस्येवेति । समानाधिकरणद्रवत्वसामग्भ्यस मवाहिताग्निसंयोगजन्यध्वंस प्रतियोग्यवृत्तिजातिमद्रवत्वाधिकरणत्वादित्यत्र तत्रोक्तेऽस्यापि तात्पर्यादिति भावः । विशेषण इति सप्तम्यन्तम् । अभिप्रेतमिति । ग्रन्थकृत इति शेषः । तथाचैतन्मते नेदमिति भावः । अत एवालंधूमदशायामित्यादिकिरणावलीविरोघोप्यपास्तः । वस्तुतो धूमत्वव्यञ्जकस्य स्पर्शविशेषस्य चक्षुःकोणग्राह्यस्य तत्रापि सत्त्वादलंधूमो धूम एव, अस्तु वा तदन्यस्तथापि तद्ध्वंसजन्यद्रव्यत्वेन तदुपादानोपादेयत्वनियमेन तस्य गुरुत्वे धूमोपादानेऽपि तदारब्धधूमेऽपि गुरुत्वमावश्यकमेव । मूले तु तेजस्यपि सर्वत्राल्पं गुरुत्वमस्त्वितीष्टशपत्तिशङ्कानिरासार्थमवनति विशेषहेतुगुरुत्वस्यैव व्यापकत्व मापाद्यमित्यभिप्रायेण घटादिगुरुत्वव्यभिचारबारणाय भौमस्येति विशेषणमिति प्रतिभाति । प्रत्येकगुरुत्वस्य तज्जातीयव्यापकत्वम सिद्धमित्यत आह अभौममिति | सुवर्णत्वादिजातिमादाय सिद्धसाधन-