सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/६८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६०७
व्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


तस्यापि दूषणान्तरतापत्तेः । ताप्यपरिच्छेदो न तस्य विरोधी स्वभावादिति तस्य परापेक्षित्वात्, बाधपतिरोधयोस्तु साध्या- भावपरिच्छित्तिरूपत्वादाभासान्तरस्वमिति चेत् । न । सर्वोपसंहारप्रवृत्तवाद्याभ्यन्तरनियमस्यानुमानसहायत्वात् । तदेकदेश-


न्यायलीलावतीकण्ठाभरणम्

व्यत्वासिद्धिरित्यर्थः । ताद्रूप्यपरिच्छेदः साध्यवत्तया धर्मिपरिच्छेदः सिद्धसाधनमिति यावत् । तस्य न साध्यसिद्धिविरोधित्वं धाराबहनादिदर्शनात् । साध्याभावपरिच्छित्तिस्तु साध्यसिद्धिपरिपन्थिनीति तयोः स्वातंत्र्येणैव दोषत्वमित्यर्थः । बाह्यः सपक्षः, आभ्यन्तरं पक्षः

न्याय लीलावतप्रिकाशः

भावप्रमा तु स्वतो दूषिका तथा, सत्प्रतिपक्षोऽपि व्याप्त्यादिप्रमाप्रतिबन्धकत्वेन तथेत्याह ताद्रूप्येति । साध्यवत्तया धर्मिणः परिच्छेदः सिद्धसाधनमित्यर्थः । सर्वेति । बाह्याभ्यन्तरं सपक्षपक्षसाधारण्येनेत्यर्थः । वह्नौ कृतकत्वदर्शनात् पूर्वं पक्षधर्मताज्ञानाभावादेव नानुमितिस्तदर्शने च साध्याभाववति हेतुदर्शनादनैकान्तिकत्वमेव दूषणम् । न च वह्नौ प्रत्यक्षेण साध्यामावग्रहात्पूर्व हेतुदर्शने सत्यनैकान्तिकत्वज्ञानासा वादनुमितिसामग्री निःप्रत्यू हैवेति वाच्यम् । विशेषादर्शनदशायामुत्पन्नस्यापि व्याप्तिज्ञानस्य वह्नौ साध्याभावप्रमया बाधेनानुमिति सामग्री वैकल्ये नानैकान्तिकस्यैव दूषणत्वादिति भावः । ननु पक्षत्वाभिमतादन्यत्र साध्याभाववति हेतुसत्त्वेनानैकान्तिकमत्र

न्यायलीलावतीप्रकाशविवृतिः

त्तिरूपत्वादित्यपि द्रष्टव्यम् । व्यायादिप्रमेति । अन्यतरत्वेन व्याप्तिपक्षधर्मान्यतरभङ्गनिर्णयेऽसाधारणरूपेण सन्देहादिति भावः । पौनरुक्त्यभिया सर्वोपसंहारप्रवृत्तत्वमेव परिच्छिद्याह बाह्याभ्यन्तरमिति । यद्यपि बाह्याभ्यन्तरै सपक्षपक्षौ न तदुभयसाधारण्येनेति फक्किका युज्यते, तथापि पर्यवसितार्थोत्कीर्त्तनमिदम् । नच वह्नाविति । व्याप्तिपक्ष- धर्मताज्ञानोत्तरं यत्र पक्षे साध्याभावग्रहस्तत्र बाधस्य प्रतिबन्धक त्वमिति शङ्कार्थः । उत्पन्नस्यापि व्यातिज्ञानस्याप्रामाण्यस्य शङ्का तत्र बाधात्मक व्यभिचारज्ञानेनाघीयत इति तच्छङ्काशून्यपरामर्षाभावादेव