सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/६८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६०८
न्यायलीलावती


प्रवृत्तविपरीत परिच्छेदस्यैव वाधस्य सञ्यभिचारत्वात् । स च व्यभिचारो बहिरन्तक्ष्चेति व्यभिचारदेहान्तर्भूतत्वात् । प्रतिरोधे च प्रतिरोध्यनियमग्राहकमत्यक्षबोधस्य सत्त्वे तस्यानुद्भावनात् ।


न्यायलीलावतीकण्ठाभरण

तथाच बाधे पक्षे एव व्यभिचारान्न हेत्वमासान्तरत्वम् । ननु नहि न पक्षे पक्षसमे वा व्यभिचार इत्यत आह सचेति । दोषे सति नेयं परिभा-

न्यायलीलावती प्रकाशः

तु न तथेत्याशयेनाह स चेति । पक्षानिरिक्त्तत्वस्य गौरवकरत्वादित्यर्थः । नच बाधोत्तरमनैकान्ति करवा पक्षधर्मत्वयोऽदूषकत्वादुपजीव्यत्वाद्वाघः पृथक्, उपजीव्यत्वं हि न तावत्तमवगम्यैवावगमः, बाधमनवगम्यापि शब्दादनुमानाद्वा अनैकान्तिकत्वस्य सुग्रहत्वात् । वस्तुत एकत्र धर्मिणि हेतुसाध्याभावाविति समूहालम्बनैकैव प्रतीतिर्हेतुसाध्याभावयोः सामानाधिकरण्योल्लेखिनी, अन्यथा साध्याभावप्रमायां यदि हेतोरज्ञानं तर्ह्यसिद्धिरेव स्यादित्ये कवित्तिवेद्यत्वं तयोरिति नोपजीव्यत्वम् । नापि बाधमुद्भाव्यैवोद्भावनम् असिद्धेः, नहीदमनैकान्तिकमित्युक्ते, कथमिति परानुयोग आवश्यको, येनावश्यकोद्भाव्यता स्यात्, तथात्वेप्युजीवक्रमेव दूषणमस्तु क्लृप्तत्वात, अतएवावश्योद्भाव्यत्वं तदिति परास्तम् । अथार्थान्तरोपनायकस्मृ-

न्यायलीलावतीप्रकाशविवृतिः

तत्र नानुमितिरिति परीहारार्थः । शब्दादनुमानाद्वेति । एतच्च प्रत्यक्षरूपमेव ज्ञानं नोपजीव्यमिति प्रतिपादनाथ । ज्ञानान्तरसावारण्येनोपजीव्यत्वनिगसायाह वस्तुत इति । नहीदमनैकान्तिकमिति। यद्यपि बाधोद्भावनानन्तरमेव व्यभिचारोद्भावनमिति शङ्कायां व्यभिचारोद्भावनानन्तरं न बाघोद्भावनमिति परिहारो व्यधिकरणस्तथाप्युद्भावयितुर्विम र्षशरीरमेतत् तथा च व्यभिचारे उद्भाविते कथमिति यदि परकथं तावश्यं तदा प्रथमं बाघ एवोद्भाव्यतामावक्ष्यकत्वादित्यालोचयतां प्रथमं बाघोद्भावननियमः स्यान्न त्वेतदस्तीति नाशङ्कितो नियम इति भावः । यद्वा बाघोद्भावनपूर्वतानियतं न व्यभिचारोद्भावनमित्येवाशङ्काफक्किकार्थ इति यथाक्ष्रुतैव परिहारफक्किका । अत एवेति । पूर्वोत्तरसाधारण्येनेति शेषः । रत्नकोशकुन्मतमाशङ्केते अथेति । एत-