सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/६६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती न्धस्वभावत्वात् । तदुत्पत्तौ दुःखात्यन्ताभावस्य (१) तदीयत्वेन व्यवहारात् । तदीयव्यवहारापकत्वेन विषयविषयिभावादिवदस्या- पि सम्बन्धव्यवहारगोचरत्वात् । ध्वंसस्वभावत्वेन कृतकस्या- प्यविनाशित्वोपपत्तेः । न चादत्तफलानां प्रमाणतः साधनत्वनिश्च- यविरोधः । सतां सहकारिसाहित्ये दुःखजनकत्वस्य तत्साधन- तारूपत्वात् । एषां च ध्वस्तत्वेन फलानुत्पादकत्वात् प्रायश्चित्त प्रतिहतदुरितवत् । न चात्यन्ताभावप्रतिपक्षानिरूपणम्, शङ्कित- ५९० न्यायलीलावतीकण्ठाभरणम् निष्ठदुःखात्यन्ताभावस्य तादृशदुःखध्वंसः सम्बन्ध इति भावः। एतदे- वाह तदुत्पत्ताविति । ननु ध्वंसः कथं सम्बन्ध इत्यत आह तदीयेति । ननू. तसम्बन्धनिवृत्तौ पुनः संसारितापत्तिरित्यत आह ध्वंसस्वभावत्वेनेति । न चादत्तफलानां प्रमाणत इत्यादि दूषयति नचादत्तफलानामिति । परा- त्मवृत्तीत्यादि यथाशक्ति दूषयति न चात्यन्ताभावेति । संसारितद्दुःख- न्यायलीलावतीप्रकाशः मोक्षस्तथाच विशेष्यस्थासाध्यत्वेऽपि विशेषणस्य साध्यत्वाद्विशि टस्य साध्यत्वमित्यर्थः । ध्वंसस्यान्यत्र सम्बन्धत्वाभावेऽपि प्रकृते तत्त्वमुपपादयति तदीयेति । उत्पन्नस्याना शित्वे हेतुमाह ध्वंसेति । अ- त एव नाकाशादेरपि मुक्तत्वापत्तिः । अत्र तादृशदुःखात्यन्ताभाव. स्याभावात् सम्बन्धविरहात् । न चैयमावश्यकत्वात्सम्बन्ध एव मुक्तिरस्तु दुःखसाधनशरीरादिध्वंसस्य सम्बन्धत्वात् तस्य च स्वतो पुरुषार्थत्वात्, निर्दुःखः स्यामिति हि प्रवचैते न दुःखसाधन. ध्वंसवान् स्यामिति दुखहेतुत्वस्य प्रमाणावगम इत्यत्राह नचेति । परात्मवृत्तीत्यादि दूषयति नचात्यन्ताभावेति । यथा शंकितदुःखपरिहा- , न्यायलीलावतीप्रकाशविवृतिः तिरिति भावः । तथाच विशेषस्येति । 'सति विशेषणे ही तिन्यायानभ्यु • पगमेनेदम्, दुःखहेतुत्वस्य प्रमाणाभावादिति । तादृशध्वंसस्य स. म्बन्धत्वपक्षेऽपि प्रागुक्तदोषतौल्यादित्याशयवानिति शेषः । तदीयस्य ( १ ) दुःखाभावस्येति सु० पु० पाठ |