तु युगददशेषक्लेश भोगो [१]पायकायव्यूहादिनि वर्तक योगाभ्यासप्रसादसमासादितास्मतत्त्वसाक्षात्कारस्य कारण भावाद्धीनक्लेशस्य
युगपदुपभुक्तसमस्तदुःखनिवृत्तिः तदा सैव मुक्तिरशेषदुःख निवृत्तिरूपा पुरुषार्थो भविष्यति । दुःखजातीयात्यन्ताभावस्य वा स्वात्मनि साध्यत्वात् । अशेषक्लेशहेतुनाशस्थ चात्यन्ताभावात्मसम्ब-
न्यायलीलावतीकण्टाभरणम्
पादेयं स्यादिति चेत्, कः सन्देहः, देहदाहच्छेदादिनापि दुर्नामकव्याधिनाशदर्शनात् । प्रवृत्तिरपि अनागतदुखध्वंलार्थ नानुपपन्ना, अनागत घटनाशार्थमपि मुगरादौ। प्रवृत्तिदर्शनात् । दुःखात्यन्ताभावस्य मुक्तित्वमाह दुःखेति । दुःखत्वावच्छिन्नात्यन्ताभावो मुक्तिर्न तु यत्कि ञ्चिद्दुःखात्यन्ताभावस्तस्य स्वतः सिद्धत्वादित्यर्थः । ननु नित्यत्वात्कथमयं पुरुषार्थ इत्यत आह अशेषेति । क्लेशो दुःखम्, तथाच दुःखसाधनध्वंसविशिष्टदुःखत्वावच्छिन्नात्यन्ताभावो मुक्तिः, विशेषणांशस्य साध्यतया विशिष्टस्यापि साध्यत्वमिति भावः । लोष्टादि-
न्यायलीलावतीप्रकाशः
तदुःखध्वंसार्थं प्रवृत्त्यनुपपत्तिः, लोकेऽनागतकुम्भनाशार्थमपि मुद्ररादौ प्रवृत्तिदर्शनात् । अत्यन्ताभावस्य मुक्तित्वं व्युत्पादयति दुःखजातीयेति । यत्किञ्चिद्दुःख व्यक्त्यत्यन्ताभावस्य स्वतःसिद्धत्वात्तज्जातीयेत्युक्तम् । नन्वत्यन्ताभावोऽसाध्य इत्युक्तमत आह अशेषेति । दुःखात्यन्ताभावस्यासाध्यत्वेऽपि दुःख साधनध्वंस विशिष्टदुःखात्यन्ताभावो
न्यायलीलावतीप्रकाशविवृतिः
त्वात् । न चैवं तादृशदुःखध्वंस एव मुक्तिः किमर्थमनेकपदमिति वाच्यम् । तावत्येव तात्पर्यात् । मुद्गरादौ प्रवृत्तिदर्शनादिति । यद्यपि प्रागभावस्य प्रतियोगिजनकत्वानियमादवश्यं चरमदुःखेनोत्पत्तव्यमे वोत्पन्ने च तस्मिंस्तद्भोगादेव तन्नाश इत्यालोचयमानानामेव मुक्त्यर्थे प्रवृत्तिरनुपपन्ना, तथापि दुःखादुद्विजमानानां त्वरया मोक्षमिच्छतां प्रागभावो विनाऽपि तत्त्वज्ञानं चरमदुःखं जनयेदित्यालोचयतां प्रवृ-
- ↑ भोगपदं प्राचीन पुस्तके नास्ति ।