सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/६६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५८७
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकांशोद्भासिता


विरोधात् । असत्त्वे दुःखाभावस्य स्वतो निर्वत्र्त्यत्वे अत्यन्ताभावत्वव्याकोपात् । अत्यन्तायावसम्बन्धः साध्य [१] इति चेन्न । उत्पत्त्याघ सम्बन्ध [२] निवृत्तौ मुक्तस्यापि संसारखापत्ते: । परात्मवृत्तिदुःखात्यन्ताभावस्य स्वन: मिद्धत्वात् मुमुक्षुसमवेतदुखात्यन्ताभावस्य च [३] प्राक प्रध्वंसयोज्यतरत्रान्तर्भावात् । येषां चात्यन्ताभावो दुःखानां तेषामध्यक्षानुमानागमप्रभवस्मृत्यगोचराणामभावनिरूपकतानुपपत्तिश्च । यावदनागत दुःखप्रागमावानुवृत्तिः क्रियत इति चेन्न । प्रागभावस्वभावो वा दुःखनिवृत्तिः, तस्यानागत कतिपय समयसम्बन्धो वा, यावदनागत समयसम्बन्धो वा ? नायः । अनादित्वात् । न द्वितीयः । दुःखस्य पुनरुत्पत्तिप्रसङ्गात् । न तृतीयः । प्रागभावत्वविरोधात् । विनाशिनश्चानन्तकालसम्बन्धित्व विरोधात् । अविनाशिनः स्वतः सिद्धत्वा-


न्यायलीलावतीकण्ठाभरणम्

द्धत्वादित्यर्थः । प्राक्प्रध्वंसयोरिति । अत्यन्ताभावस्य प्रतियोगिवैयधिकरण्यनियमादित्यर्थः । अध्यक्षानुमानागमप्रभवा या स्मृतिस्तदगोचराणामित्यर्थः । स्मृतप्रतियोगिकस्यैवाभावस्य निरूपणादिति भावः । प्रागभावस्वभाव इति । प्रागभाव एवेत्यर्थः । अनागतेति । अनागतकतिपयसमयसम्बन्ध इत्यर्थः । अनादित्वादिति । तथाचानुवृत्तिः क्रियत इति विरोध इत्यर्थः । दुःखस्येति । अनागत कतिपयानन्तरदुःखस्य पुनरापत्ते रित्यर्थः । प्रागभावत्वेति । प्रागभावस्य प्रतियोगिजनकत्वनियमादित्यर्थः । ननु प्रागभावः प्रतियोगिनमजनयित्वैव नक्ष्यति ततः कथं दुः- खस्य पुनरापत्तिरित्यत आह विनाशिन इति । अविनाशिन इति । तथा

न्यायलीलावतीप्रकाशः

नाशनियमादिति भावः । प्राक्प्रध्वंसयोरिति । अत्यन्ताभावस्य प्रतियोगिलादेश्याभावादित्यर्थः । प्रागभावत्वेति । तस्य प्रतियोगिजनकत्वनिय


  1. ↑ साध्यते इति मु० पु० पाठः ।
  2. ↑ सम्बन्ध्यनि-मु० पु० पाठः ।
  3. ↑ चकारो नास्ति प्रा० पुस्तके ।