सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/६६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५८६
ज्यायलीलावती


साधन [] ध्वंसो मुक्तिरिति चेत् । न । दत्तफलानां निवृत्तेरयत्नसिद्धत्वात् । अदत्तफलानां तु अजागतानर्थानुत्पत्तिमनभिसन्धाय निवृत्तेर समीहितत्वात् । न हि निदाननिवृत्तिः स्वभावतः साध्या, क्लेशनाशेतरत्वात् । अनागतानुत्पत्तेश्च स्वतः साध्यताविरोवात्। तच्चानर्थजातं मुमुक्षुसमवेतमन्यसमवेतं वा ? नायः । तथासति दुःखस्याऽवश्यं तत्रोत्पत्तावदत्तफलताविरोधात् । नेतरः । परदुःखनिवृत्तेः स्वात्मनि सिद्धत्वात् । दुःखान्नियतपूर्वेभावित्वस्य तद्धेतुत्वस्य प्रमाणादवगमे दुःखस्य स्वात्मन्यवश्यमुत्पादात् । अनुत्पत्तौ दुःखहेतुता ग्राहकमानस्याभाऽऽसतापत्तेः । नापि दुःखात्यन्ताभावः । तस्येदानीं सत्त्वे सिद्धस्य साध्यता-


न्यायलीलावतीकण्टाभरणम्

अनागत दुःखानुत्पत्तिमित्यर्थः । नन्वनागतानुत्पत्त्यभिसन्धिरस्तु को दोष इत्यत आह अनागतेति । तस्यानादित्वेनानुत्पाद्यत्वादित्यर्थः । तञ्चेति । यदि दुःखानुत्पत्तिमभिसन्धाय प्रवृत्तिरित्यर्थः । किं यो दुःखहेतुध्वंसाय मुमुक्षुः प्रवर्तते तस्य दुःखहेतुत्वं तदा दुःखं स्यादेव, न चेदुखं तेन जननीयं तदा न दुःखहेतु तेत्याह दुःखादिति । नापीति । मुक्तिरित्यनुषज्यते । परात्मवृत्तीति । आत्मनि स्वतःसि

न्यायलीलावतीप्रकाशः

मानेति । प्रायश्चित्तादौ दुःख साधनध्वंलस्य पुरुषार्थत्वदर्शनादित्यर्थः। अदत्तफलानामिति । प्रायश्चित्तस्थले पापं नाश्यतां, तेन दुःखं मे माभू दित्यभिसन्धाय प्रवृत्तस्तस्य स्वतोऽपुरुषार्थत्वादिति भावः । तर्हि दुःखानुत्पाद एव पुरुषार्थोऽस्त्वित्यत आह अनागतेति । स्वतः - स्वभा वत्तः । तवेति । यदनुत्पत्तिमभिसन्धाय निवृत्तौ प्रवर्त्तत इत्यर्थः । परदुःखेति । अत्यन्ताभावरूपत्वात्तभ्या इत्यर्थः । अदत्तफलान्येव कर्माणि नश्यन्तीत्यत्र दूषणमाह दुःखानियतेति । उत्पत्त्याघेति । भावश्योत्पत्तिमतो

न्यायलीलावती प्रकाशविवृति:

प्रसक्ता सा नास्ति लुप्तस्याच्प्रत्ययस्यैवाश्रयवाचकत्वादिति भावः ।


  1. हेतुध्वस इति प्रा० पु० पाठः ।