सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/६१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५४२
न्यायलीलावती


मानसत्त्वे विरोधोऽर्थापत्तिरस्त्विति अभावविलयापत्तेरिति । प्रसिद्धं चैतदित्यलमनेन । अर्थापत्तिभङ्गः ।

 प्रचुरसाहचर्य संवेदनात् बुद्धिरवाधिता संभवः । यथा संभवति मेघे जलमिति । तच्चाध्यक्षवत् क्कचिव्घभिचारेऽपि मानान्तर-


न्यायलीलावतीकण्ठाभरणम्

कल्पनाऽस्तु । यद्वा शतवर्षजीवी देवदत्तो गृह एवेति व्याप्त्यवधारणात् गृहे नास्तीति तद्भावग्रहात् जीवनमरणसंशयमापाद्य बहिः- सत्वकल्पनात सांशयिकानुपपत्तिरिति चेन्न । आद्ये प्रमाणयोर्विरोधाभाव एव । अन्त्ये जीवननिश्चये संशयानुपपत्तिरेवेत्यादि कथं नोक्तमत आह - प्रसिद्धञ्चेति ।

 सम्भवति मेघे जलं सम्भवति खार्य्यो द्रोण इति प्रचुरसाहचर्थ्यसम्वेदनाज्ञानं सम्भवाख्यं जनयतीति मतं निरस्यति प्रचुरेति । ननु सम्भवो न मानं व्यभिचारिबुद्धिजनकत्वादित्यत आह - तच्चेति । एवं सति इन्द्रियमपि व्यभिचारिज्ञानजनकत्वान्न

न्यायलीलावतीप्रकाशः

लभ्यमानसत्त्वे योग्यानुपलब्धिर्विरोधिरूपार्थापत्तिरेव करणं स्यादिति सापि मानान्तरं न स्यादित्यर्थः । ननु तथापि कथं विरोधस्यानुमानेऽन्तर्भाव इत्यत आह प्रसिद्धं चेति । एतदर्थापत्तिरनुमानमेवंरूपमित्यर्थः । विरोधोपि न तावद्गृह्यते यावदभावयोर्व्याप्तिर्न गृह्यते सहानवस्थाननियमस्य विरोधत्वादिति भावः ।

 तच्चेति । यथेन्द्रियं दोषसाहित्यात् क्कचिदप्रमाकरणत्वेऽपि प्र-

न्यायलीलावती प्रकाशविवृतिः

माने च न विरोधज्ञानं करणमिति भावः । सापीति । तवेति शेषः । यद्यपि न गृहे देवदत्त इति ज्ञानानन्तरं देवदत्तो बहिरस्तीति ज्ञानं गृहनिष्ठाभावप्रतियोगित्वलिंगकानुमितिरूपं वाच्यम् तच्चाशक्यं प्रतियो गित्वस्य संसर्गमर्यादया भानेन लिंगतावच्छेदकप्रकारकशानाभावात् । तथाप्यनुपपत्तिरपि प्रतियोगित्वस्यैवेत्युपपाद्यतावच्छेदकप्रकारकशानाभावेन ताहाशि ज्ञाने ताहराफलासिद्धेरु मयत्वमेव | नचावश्यंभावज्ञानमेव गमकम् । एवमनुमानेऽपि तस्यैव गमकत्वेन द्विलक्षणसामग्यमावेन भेदाभावादिति भावः ।