सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/६१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५४१
न्यायलीलावतीकण्ठाभरण-सर्विवृतिप्रकाशौद्भासिता


क्षधर्मतावद्व्यतिरेक्येव । अनुपपद्यमानस्योपपादकासत्त्वे विरोधो गमक इति नानुमानमिति चेत् । न | अनुपलब्धेरप्यनुपलभ्य-


न्यायलीलावतीकण्टाभरणम् ।

धज्ञानमात्रं करणमिति शङ्कते अनुपपद्यमानस्येति । एवं सति भट्टाभिमतानुपलब्धिरपि न प्रमाणान्तरं स्यात, भूतले घटवत्ता तदनुपलब्धिविरोधिनीति ज्ञानादेव भूतले घटाभाव इति ज्ञानसम्भवादित्याह नेति । ननु सामान्यतोडष्टेन जीवी क्कचिदस्तीति गृहस्यापि विषयत्वात् योग्यानुपलब्धेश्च तत्राभावग्रहात् मानयोर्विरोधाद्वहिःसत्व-

न्यायलीलावतीप्रकाशः

स्प ज्ञानमनुमितिहेतुः, केवलान्वयिनि तदभावात् । मैवम् । व्यतिरेकसहचाराल्लिङ्ग एव व्याप्तिग्रहात् प्रतियोग्यनुयोगिभावस्य नियामकत्वात् अन्वयव्यतिरोकवत् । तथापि जीविदेवदत्ताभावो गृहे वर्तमानो न बहिःसत्वे लिङ्गं देवदत्तावृत्तित्वात् । न च गृहनिष्ठाभावप्रतियोगित्वं लिङ्गम, प्रतियोगित्वस्य देवदत्तधर्मतया तद्सन्निकर्षे प्रत्यक्षेण ज्ञातुमशक्यत्वात् । अत एव देवदत्तस्य विशेष्यस्यासन्निकर्षात्तृतीयलिङ्गपरामर्शोपि नेन्द्रियात् । अत्राहुः । व्यतिरेकव्याप्तिज्ञानसहकृतेन मनसैव स्मृतदेवदत्तविशेष्यकस्तृतीयलिङ्गपरामर्श:। यथा च न सहकारि मानान्तरं तथोपपादितमधस्तात् । अनुपपद्यमानस्येति । उपपादकस्य बहिःसत्त्वस्याभावे उपपाद्यस्य गृहनिष्ठजीविदेवदत्ताभाषस्य अभावाद्विरोघेऽर्थापत्तिरनुमाने तु न तथेत्यर्थः । अनुपलब्धेरिति । यत्रापि योग्यानुपलब्धिरभावप्रमाकरणं तत्राप्यनुप-

न्यायलीलावतीप्रकाश विवृतिः

च उपमानपार्थक्ये मुख्यमिदं बाधकम् - गचयत्वविशिष्टो गवयशब्दवाच्यः असतिवृत्त्यन्तरे गवयशब्दप्रयोगविषयत्वादित्यनुमानादेव फलसिद्धिरिति । साध्यप्रसिद्धिश्चातिदेशवाक्यादेव पक्षविशेषणम्प्राहिम्ना चाभिमतसिद्धिः ।

 अप्रसक्तनिषेधमाशंक्याह अन्वयव्यतिरेकिवदिति । जीवीति स्वमतेन दृष्टान्तः । परामर्षोऽपि नेन्द्रियादिति । पक्षविशेष्यकपरामर्षस्यैवानुमितिजनकत्वादिति भावः । व्यतिरेकव्याप्तीति । व्यतिरेकसहचारग्राह्यव्याप्तीत्यर्थः । तेन न पूर्वापरविरोधः । उपपादकस्येति । अनु-