पूर्वकाणि, योग्यतासत्तिमत्त्वे सति संसृष्टार्थपरत्वात्, गामभ्या-
न्यायलीलावतीकण्ठाभरणम्
त्यर्थः । तदेवानुमानमाह - पदानीति | वेदपदानि पक्षयित्वैवानुमानं तथा च न वेदोऽपि स्वातन्त्र्येण प्रमाणमिति भावः । तातपर्य्यविषयेति--- साध्यविशेष्यमतो नाऽनभिमतसंसर्गसिद्धिः । योग्यतेति । आकांक्षायोग्यतासत्तिमत्त्वादित्यर्थः । अन्यथा संसृष्टार्थपरत्वं संसृष्टत्वप्रकारक-
न्यायलीलावतीप्रकाशः
शब्द इति । पदार्थसंसर्गस्यानुमानादेव सिद्धेरित्यर्थः । तदेवानुमानमाह - पदानीति । वैदिकानि लौकिकानि पदानि तात्पर्यविषयस्मारित पदार्थ संसर्गज्ञानपूर्वकाणीत्यर्थः । तेन संसर्गस्य बहुप्रकारकत्वेऽपि नाऽनभिमतसंसर्गसिद्ध्याऽर्थान्तरम्, तस्य तात्पर्याऽविषयत्वात् । अन्यथा शब्दस्य मानान्तरत्वेऽपि अभिमतान्वयबोधो न स्यात् यत्तु संसर्गान्तरज्ञानापूर्वकाणीति पक्षविशेषणमिति | तन्न | तस्य पूर्व ज्ञातुमशक्यत्वात् । संसृष्टार्थेति । ननु संसृष्टो योऽर्थस्तत्परत्वं तत्परसन्नि-
न्यायलीलावतीप्रकाशविवृतिः
योग इतिभावः । तदन्यजातीयत्वशङ्कायामव्याप्यत्वशङ्कायामित्यर्थः ।
अनुमानम् ।
पदार्थसंसर्गस्येति । तथा च विद्याद्वैविध्यान्नानुपपन्न मिति भावः । मीमांसकाद्यवच्छिनन्ति वैदिकानीति । पक्षता च वाक्यविशेषत्वेन न तु वैदिकत्वादि नेत्यवधेयम् । विपरीत क्रियाकर्मभावेऽर्थान्तरवारणा य सम्भवनियमादिभेदेन चार्थान्तरवारणाय तात्पर्थ्यविषयेति संसर्गविशेषणम् । नानार्थे पदार्थान्तरसंसर्गज्ञानपूर्वकत्वेनाऽर्थान्तरवारणाय स्मारितेति । तदर्थस्तु तदुच्चारणतात्पर्यविषयत्वं पदार्थविशेषणम् । वह्नितात्पर्य के धूमोस्तीति वाक्ये आहत्य वह्निसंसर्गज्ञानपूर्वकत्वं मालैत्सीदिति पदार्थपदम् । ततश्च पदेन वृत्त्योपस्याप्यत्वम्। ज्ञानपदञ्च प्रमापरम् । तेन तदवच्छेदतथा संसर्गसिद्धौ निःशङ्कप्र वृत्तिः । बहुप्रकारकत्वेऽपि बहुविधत्वेऽपि । ननु तात्पर्यज्ञानदशायामेव नैषा सामग्रीत्यत्र आह - अन्यथेति । तथा च तस्यां दशायामन्वयाबोध उभयसिद्ध इति मावः ॥ तस्येति | संसर्गान्तरत्वं प्रकृतसंसर्गान्यत्वम् तच्च प्रकृतसंसर्गाग्रदे ज्ञातुमशक्यमित्यर्थः । लिङ्ग विशेषणं योग्यताऽ