शब्दस्तु न मानान्तरम् । पदानि स्मारितार्थसंसर्गविज्ञप्ति
न्यायलीलावतीकण्ठाभरणम्
शब्दस्तित्वति । तत्साध्यस्य पदार्थसंसर्गस्यानुमानादेव सिद्धेरि-
न्यायलीलावतीप्रकाशः
अथ सामान्यनिश्चयस्य सामान्यसंशयप्रतिबन्धकत्वाद् धूमसा मान्ये संशयो मा भूद्विशेषसंशयश्च विशेषनिश्चयनिवर्त्तनीय इति धूमविशेषे व्याप्यत्वसंशयनिरासार्थ पृथग्व्याप्तिनिश्चयो वाच्य इति चेन्न । यत्र हि यव्द्यावर्त्तकधर्मदर्शनं तत्र न तत्संशयः, तर्ञ्च सामान्ये विशेषे वेति न विशेषः । अथ व्याप्तेर्विशेषणस्य स्मरणं पक्षधर्मस्य विशेष्यस्थेन्द्रिय सन्निकर्षात्तयोरसंसर्गाग्रहाच्च विशिष्टज्ञानसामग्री सत्त्वाव्याप्यत्वपरामर्ष आवक्ष्यक इति चेत् । न । प्रत्यक्षसामग्रीतोऽनुमितिसामग्या बलवत्त्वमित्यनुमितेरेव तत्रोत्पत्तेः । अन्यथा तृतीयलिङ्गपरामर्षानन्तरं पूनः परामर्षान्तरोत्पस्यापत्तेः । किञ्च इन्द्रियासन्निकृष्टे धूमे स्मृते प्रत्यक्षविशिष्टज्ञानसामग्रीविरहानुमितिर्न स्यात् ।
अत्राहुः | वह्निव्याप्यवानयमिति शाब्दज्ञाने व्याप्यत्वावच्छेदकधूमत्वादेरग्रहादनुभितिर्न स्यादिति व्याप्यत्वज्ञानस्य तत्र कारणत्वं क्लृप्तमित्यन्यत्राऽपि तथा ।
अथ वह्निव्याप्यत्वमपि वह्निव्याप्यत्वावच्छेदकम् । तथाहि वह्निनिरूपितधूमादिप्रत्येकवृत्तिरेव व्याप्तिर्व्याप्तित्वेन सकलधूमादिव्याप्त्यवच्छेदिका, आश्रयभेदेन व्यातिभेदात् । मैवम्, धूमादिसकलवृत्तिव्यासौ मानाभावात् । यत्र वह्निव्याप्यस्तत्र वह्निरिति व्याप्तौ शाब्दव्याप्यत्वबुद्धौ प्रत्येकवृत्तिव्याप्ट्याश्रयस्यैव विषयत्वात् प्रत्येकवूत्तिव्याप्तिज्ञानं विना तज्ज्ञानाभावात् । किञ्च अनुमितिं प्रति व्याव्यत्वज्ञानं कारणं लाघवादुपजीव्यत्वात् । म चानुमितेः पूर्वे तस्यासिद्धौ युगपदुपस्थित्यभावान्न लाघवावतार इति वाच्यम् । यत्र व्याप्तिधूमत्वयोवैंशिष्ट्यं प्रथममेव युगपत्प्रत्यक्षेण पक्षधर्मे भासते शब्दस्य दूषणत्वाच्च असन्निकृष्टेऽतीन्द्रिये च परामर्षो व्याप्तिज्ञानसहकृतेन मनसा जन्यते । न चैवं व्याप्तिस्मृतेरिन्द्रियादिवम्मानान्तरत्वापत्तिः, व्यापाराभावेनाकारणत्वादिति संक्षेपः ।