पात् । न चात्र रूपत्त्वं महत्त्वं वोपाधिः । रूपादेरपि प्रत्यक्षत्वात् । रूपे रूपत्वं द्रव्येषु महत्वं रूपववत्वमिति [१]चेत्, न,
न्यायलीलावतीकण्ठाभरणम्
हर्त्त्वं च उपाधिरत्रेति निरुपाधित्वमस्त्वित्याह - रूपवत्वमिति । उपाधेः साध्याब्यापकत्वमाह - रूपादेरपीति । रूपे प्रत्यक्षत्वं साध्वमस्ति न च रूपवत्त्वमुपाधिरित्यर्थः । द्रव्यप्रत्यक्षतायामुपाधिरयं गुणप्रत्यक्षतायां च रूपत्वमेव तन्त्रमित्याह -- रूप इति । अत्राप्युभयोः साध्या-
न्यायलीलावतीप्रकाशः
जन्यप्रत्यक्षत्वे साध्ये वावः योगिज्ञानस्य विशिष्टज्ञानत्वेन विशेषणसविकल्पकजन्यत्वात् निर्विकल्पकस्य च योगिन्यनङ्गीकारात् । अत्राहुः । जन्यप्रत्यक्षत्वावच्छिन्न प्रतियोगिकविषयताश्रयत्वं साध्यं उपनीते च तदसम्भवः पटं साक्षात्करोमीतिवत् परमाणुं साक्षात्क रोमत्यिस्मदादीनामनुव्यवसायापत्तेः । रूपादेरपीति । तथा च साध्याव्यापकत्व मित्यर्थः । ननु परमाणुरूपमात्रं न पक्षीकृतमपि तु तद्गु
न्यायलीलावती प्रकाश विवृतिः
द्विरिति भावः । निर्विकल्पकस्येति । अनागतगोचर साक्षात्कारमात्रस्यैव सविकल्पकत्वनियमादिति भावः । जन्यप्रत्यक्षत्वेति । यद्यत्येवमन ( नु?) पनीत प्रत्यक्षविषयतामादायार्थान्तरम्। न च यावत्प्रत्यक्षविषयत्वं साध्यं बाधात् । परमाणुं साक्षात्कारोमीत्यनुव्यवसायः स्वातन्त्र्येण परमाणुगोचरसाक्षात्काराभावादेवासम्भवी परमाणुज्ञानं साक्षात्करोमीति च भवत्येव तथापि सामान्यज्ञानलक्षणप्रत्यासत्यजन्यजन्य साक्षात्का रविषयत्वं साध्यमिति भावः । यत्तु सामान्यप्रत्यासत्यजन्यजन्यप्रत्य. क्षविशेष्यत्वं साध्यम्, उपनीतं च न विशेष्यमतो नाथन्तरमिति तत्तु च्छम् । उपनीतस्यापि मानसप्रत्यक्षविशेष्यत्वात् । ननु परमाणुरूपेति । परमाणोः प्रत्यक्षत्वे साध्ये द्रव्यत्वावच्छिन्न साध्यव्यापकं महत्त्वे सति रूपवत्त्वं तद्रूपस्य तथात्वे साध्ये गुणत्वावच्छिन्न साध्यव्यापकं उद्भुतरूपत्वमुपाधिरित्यर्थः । यद्यप्युपाघेर्नित्यदोषत्वात्पक्षभे- दोपन्यासो व्यर्थस्तथापि द्रव्यत्वगुणत्वयोः पक्षधर्मत्यप्रतीत्यर्थं तदुपन्यास इति भावः । गुणत्वपदं द्रव्यत्वस्याप्युपलक्षणम् । क्कचिहुण-
- ↑ ०षु च महत्त्वमि० ।