सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/५४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६७
म्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


लव्यावृत्तता तु प्रकाशस्थानी लव्यावृत्ति सम्बन्धो वा प्रकाशरूपत्वं वा । नायः । व्यावृत्तेरलीकत्वात् । प्रकाशाद्भेदेन प्रकाशमानताविरोधाच्च । न द्वितीयः सर्वप्रकाशानां नीलाकारताप्रसङ्गात् । (प्रकाशविशेषरूपत्वमिति चेत् विशेषरूपत्वमण्यसाधारण रूपत्वमात्रम् असाधारणैकरूपत्वं वा । नाद्यः । सर्वप्रकाशानां नीलाकारता [] पत्तेः । नेतरः । द्वितीय[स्य][नील]ज्ञानस्यानीलाकारतापत्तेः । नियता एव प्रकाशभेदा येषां नीलाकारत्वमिति चेत्, मेदपक्षेऽपि यदीयं नीलग्राहकता स्यात् को विरोधः | नीलरूपेणासम्बन्धे [] तस्य प्रकाश इति


न्यायलीलावतीकण्ठाभरणम्

च प्रकाशमानत्वं वाह्याभेदसाधनं दुर्ग्रह मेवेत्यर्थः । प्रकाशादिति । बौद्धमते ज्ञानादलकस्य भेदात् पुनः प्रकाशमानत्वं साधन दुर्ग्रह मेवेत्यर्थः । सर्वेति । पीतप्रकाशस्यापि प्रकाशत्वेन नीलाकारता स्यादित्यर्थः । ननु प्रकाशविशेषरूपत्वं नीलाकारतेत्याह- प्रकाशेति । सर्वप्रकाशानाभिति। पीताकारप्रकाशस्याव्यसाधारणरूपतया नीलाकाररूपता स्यादित्यर्थः। द्वितीयस्येति । तथा सत्येकैव नीलप्रकाशव्यक्तिर्नीलाकारा वा स्यान्न तु अन्या नीलप्रकाशव्यक्तिरपि तथा स्यादित्यर्थः । भेदपक्षेऽपीति। ज्ञानाद् वाह्यभेदपक्षेऽपीत्यर्थः । ननु भेदपक्षे सम्बन्धाधनस्तदीयत्वव्यवहारः सम्बन्धश्च नास्तीति कथं स स्थादित्याह-नीलरूपेति ।

न्यायलीलावतीप्रकाशः

धस्य सत्त्वात् । व्यावृत्तेरिति । तथा च प्रकाशेन न तत्सम्बन्ध इति भावः । सर्वप्रकाशानामिति । प्रत्येकं सर्वेषामसाधारणप्रकाशरूपत्वादित्यर्थः । भेदपक्षेऽपीति । यथा प्रकाशविशेषा एवं नीलाकार तथाऽस्मत्वक्षेऽपि केचिदेव विषया नीलाकारस्य ज्ञानस्येत्यर्थः । स्वरूपमेव ज्ञा- न्यायलीलावती प्रकाशषिवृतिः सामान्यवाह्यनीलयोरित्यर्थः । प्रत्येकमिति | द्वितीयस्थानस्य सर्वप्रका शानामित्यस्य व्याख्यानमिदम् ।


  1. ताप्रसङ्गात् ।
  2. रूपास० ।