सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/५३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४५८
म्यायलालावती


न्तो जागरितं नान्य इति चेत्, न, क्कचित्स्वप्नंऽपि पूर्वजाग्रत्प्रत्ययप्रवाहो मिथ्येति प्रबन्धबाधक प्रत्ययस्यादिभूतस्य सत्त्वात् । तदन्तर्भूतस्य जाग्रद्विज्ञप्तिसन्तानस्य च स्वापानन्तरवर्त्तिना स्वमज्ञानेन [१] सर्व एव जाग्रत्प्रत्ययो मिथ्येति बाध्यमानत्वात् । ततो भेदलक्षणाभावान्न विशिष्यते जाग्रत्स्वमज्ञानमिति [२] । अत्रोच्यते । किं प्रमाणत्वेनाविशेषः स्वप्नप्रबोधयोरुत [३] अप्रमाणत्वेन उत स्वनजागरत्वाभ्याम् [४] । नाद्यः । सवर्जनसिद्धस्व मप्रबोधभेदप्रत्यस्यस्यापि जागरत्वेन प्रमाणत्वाद्धेतोर्बा-


न्यायलोलावतीकण्ठाभरणम्

स्वप्नेऽपीति । तदन्तर्भूतस्येति । तयोः स्वप्नप्रबन्धयोरन्तर्भूतस्य जागरज्ञानसन्तानस्येत्यर्थः । एतदेव दर्शयति - स्वापानन्तरेति । स्वप्नप्रत्ययः प्रमा प्रत्ययत्वात् जागरप्रत्ययवदिति विवक्षितम् । जागरप्रत्ययोऽप्यप्रमा प्रत्ययत्वात् स्वप्न प्रत्ययवदिति वा । स्वप्नत्वजागरत्वे न भिन्ने तुल्यव्यक्तिकत्वात् । तत्राद्यं दूषयति - सर्वजनेति। स्वप्नप्रत्ययो न प्रमाणं जागरप्रत्ययस्तु प्रमाणमिति वह्नरौष्ण्यवत् स्वप्नस्याप्रामाण्यं सर्व्वजनीन मिति तस्य प्रामाण्यसाधने बाध इत्यर्थः । द्विती-

न्यायलीलावतीप्रकाशः

बाधकमादिर्यस्य स प्रबन्धबाघकादिर्वाध्यः स्वप्नलक्षण: प्रबन्धो यस्यान्तेऽसौ बाध्यप्रबन्धान्तः स्वप्नज्ञानस्य बाध्यप्रबन्धान्तत्वमाह -- तदन्तर्भूतेति । तयोर्मध्यपतितस्य जाग्रद्विशप्तिसन्तानस्येत्यर्थः । सर्वजनेति | स्वप्नप्रत्ययो मिथ्यात्वेन जागरप्रत्ययात् प्रमाभूताद्भिन्न इत्याकारस्यापि जागरप्रत्ययस्य प्रमाणत्वात्तत एवाभेदग्राहकहेतुबाधादित्यर्थः । ननु स्वप्नजागरयोनभेद: साध्यते किन्तु तयोर्भेदसाधक- स्य न साधकत्वमिति ब्रूमः । अत्राहुः । प्रमाणाप्रमाणविभागं विना

न्यायलीलावतीप्रकाश विवृतिः

रेऽप्यसिद्ध इति भावः । नाभेद इति । येनोक्तबाधः स्यादिति भावः । स्वप्नत्वजागरत्वयोरसाधारणधर्मयोरनुभवसिद्धत्वादन्यथा व्याचष्टे-


  1. ↑ स्वापानन्तरस्वप्नवर्त्तिना ज्ञानेन ।
  2. ↑ जायत्प्रत्ययात् स्वप्नज्ञानमिति ।
  3. ↑ ० धज्ञानयोरु० । ० प्नप्रवोधाभ्यामु० ।
  4. ↑ स्वप्नत्वजामत्त्वाभ्याम् ।