धात् । न द्वितीयः । अविशेषप्रत्ययस्यैवाप्रामाण्ये विशेषनिषेधव्याघातात् । न तृतीयः । अनुभववाधितत्वात् । मिथ्याऽयमनुभव
इति चेत्, न, अनुभवमिथ्यात्वग्राहकं ज्ञानं सत्यं मिथ्या वा ।
मिथ्या चेद्भेदानुभवः सत्य इति हेतोर्वाधः । सत्यं चेत्तदेवासत्यप्रत्ययान्न [१] भिद्यते सत्यं चेत्यनेकान्तः । बाधितत्वाबाधितत्वाभ्यां
विशेष इति चेत्, तुल्यं स्वप्नजागोधयोरपि । कथं तर्हि स्वप्रजाग्रद्रोधयोर्भेदव्यवहृतिः । विनापि लक्षणभेदमनुभवसिद्धत्वात्सुखदुःखवत् । तत्रानुकूलप्रतिकूलवेद्यत्वं [२] लक्षणमिति
चेत्, न सुखदुःखातिरिक्तयोरनुकूलप्रतिकूलयोरसिद्धेः । इष्टत्वमनुकूलत्वमिति चेंत्, न, इच्छाया एव [३] लक्षणभेदा सिद्धेः ।
न्यायलीलावतीकण्ठाभरणम्
ये त्वाह — अविशेषेति । जागरप्रत्ययेषु स्वप्नप्रत्ययादप्रामाण्येनाविशेषे साध्ये या अनुमितिः स्यात् सापि जागरप्रत्ययत्वेनाप्रमैव स्थादिति जागरप्रत्यये यो विशेषः प्रामाण्यं तन्निषेधे व्याघात इत्यर्थः । अनुभवबाधितत्वादिति । सर्व्वजनस्य तदुभयभेदानुभवेन बाधितत्वादित्यर्थः । अयमिति | भेदानुभव इत्यर्थः । अनुभवेति । जागमि स्वपिमीतिभेदानुभवमिथ्यात्वग्राहकं ज्ञानमित्यर्थः । हेतेोरिति । सर्वप्रत्यये मिथ्यात्वसाधकस्य हेतोरित्यर्थः । सत्यं चेदिति । तत्रैव प्रत्ययत्वमनैकान्तिकमित्यर्थः । ननु स्वप्नजागरप्रत्य (य) योर्मेंदानुभवो बाधित इति तन्मिथ्यात्वग्राहकं ज्ञानमवाधितत्वात् सत्यमेवेति शङ्कते - बाधितेति । कथं तर्हीति । केन लक्षणेनेत्यर्थः | भेदकलक्षणस्याप्यनिर्वचना दिति भावः । लक्षणे सत्यपि जल्पवितण्डे आश्रित्याह --- विनापीति । इच्छाया
न्यायलीलावतीप्रकाशः
व्याघातात्तस्याऽवश्य वाच्यतया जागरप्रत्ययस्यैव प्रमात्वं लोकसिद्धमुपेयामित्येवम्परोऽयं ग्रन्थः विशेषनिषेधः स्वप्नजानत्प्रत्यययोर्विशेषो मास्तीत्येवमाकार इत्यर्थः । अनुभवेति । इदानीमहं जागर्मि न स्वपिमीत्यनुभवाज्जा गरत्व स्वप्नत्वयोमैदाकलनादित्यर्थः । कथं तर्हीति । व्यावर्त्तकधर्मशानाभावा दुव्यावृत्चबुद्धेरनुपपत्तेरिति भावः ।