विशिष्टोत्पादादैन्द्रियकत्वमिति चेन्न, तदनभिधानात् । तथा हि* किं चक्षुरादिभिः सहोत्पादो विशिष्टोत्पादः उत तद्दर्शनजनकतयोत्पादः अथ तदर्शन विषययोग्यतयोत्पादः । नाघो । चक्षुरादिवदणूनां प्रतिभासविरोधात् । दृश्यता तु महत्वं वा अव-
न्यायलीलावती कण्ठाभरणम्
द्रव्यत्वादित्यर्थः । विशिष्टोत्पाद विरहमत्रोपाधिमाह --विशिष्टेति । प्रत्येककारणैश्चक्षुरादिमिरेकस्मिन् क्षणे सहोत्पाद इति प्रथमविकल्पार्थः । परमाणुविशेषस्तथोत्पद्यते यथा स्वविषयं प्रत्यक्षं जनयतीति द्वितीयविकल्पार्थः । काचिदेव परमाणुव्यक्तिर्दर्शनायोग्या भवति स्वाभाव्यादिति तृतीयविकल्पार्थः । चक्षुरादिवदिति । सहोतूपादे चक्षुराद्यपि प्रत्यक्षं स्यादित्यर्थः । तृतीये त्वाह - दृश्यतेति । द्रव्यदृश्यताया महत्त्वव्याप्तिरित्युपाधे साधनव्यापकत्वमित्यर्थ: । ननु स्वरूप-
न्यायलीलावतीप्रकाशः
प्रत्यक्षं न परमाणुविषयं प्रत्यक्षत्वादात्मप्रत्यक्षवदिति साधनार्थः । अतो न परमाणुमात्रपक्षत्वेंऽशतः सिद्धसाधनम् । नन्वेकस्य परमाणोर प्रत्यक्षत्वेपि तत्समूहः प्रत्यक्षः स्यात्, दूरे एकधान्याप्रत्यक्षत्वेऽपि तद्राशेः प्रत्यक्षवत् । न । तत्रैकधान्यस्य स्वरूपयोग्यत्वात् । उक्तसाधने विपक्षे बाघकाभावात् न व्याप्तिरित्यभिप्रेत्याह-विशिष्टेति । 'तदनभिधानात्' विशि०ष्टस्य निर्वक्तुमशक्यत्वादित्यर्थः । तृतीयं कल्पं दूषयति — दृश्यता त्विति । ननु तव अदृश्यविशेषझणुकस्य दृश्यजनकत्ववत् मम चादृश्यनिर्विकल्पकात्मक समनन्तरप्रत्ययस्यैष हश्यसविकल्पकजनकत्ववदहश्य विशेषस्यैव दृश्यविशेषजनकत्वमस्तु
न्यायलीलावतीप्रकाशविषृतिः
वीसाधनार्थमयमारम्भ इति विप्रतिपत्तौ द्रव्यत्वपदं द्रव्यवृत्तिपृथिवी त्वपरमतो जलाद्यवयविसिद्धिदशायां [१] द्रव्यत्वे प्रसिद्धिरतो यथाश्रुतं एव ग्रन्थ इत्याहुः । प्रत्यक्षत्वादिति । लौकिक साक्षात्कारत्वादित्यर्थः । न च व्यावयप्रसिद्धिस्तन्मते प्रसाध्याङ्गत्वादिति भावः । नन्विति ।
* आरोपविषयस्यायोग्यत्वादैन्द्रियक आरोपोऽपि न सम्भवतीत्याह तथा हीत्यादि । इति दीधितिः ।
- ↑ जलाधाकारसिद्धिदशायामित्यपि पाठः ।