परमाणावनुपपत्तौ तदतिरिक्तवस्त्वालम्बनत्वात् । तथा हि
अणवो नापरोक्षबुद्धिविपयाः, परमसूक्ष्मत्वादेकाणुवत् ।
न्यायलीलावतीकण्ठाभरणम्
तिसाक्षिकः, स चाव्यविन्येव, न परमाणौ ।
ननु परमाणव एव स्थूलप्रत्ययविषयाः स्युरित्यत आह -- तथा हीति । अणवो न योगधर्माजन्यजन्यस्वविषयकसविकल्पकाजन्यजन्यप्रत्यक्षविषया इति साध्यार्थः । परमसूक्ष्मत्वादिति । महत्त्वानधिकरण-
न्यायलीलावतीप्रकाशः
संशयः । स्थूलप्रत्ययस्येति । तदन्याविषयस्येति शेषः [१]। अतो नार्थान्तरम् । अवयविसाधकत्वेन प्रत्यक्षस्यैवोपन्यासात्, अत्रापक्षधर्मत्वस्यानुमानदूषणस्याभावः । स्थौल्यं च नानेकद्रव्यवृत्तित्वं ह्यणुकेऽतिप्रसङ्गात्, किं तु बहुद्रव्यवृत्तिद्रव्यत्वम् । अवयवद्वयारब्धेऽपि परम्परया तदस्त्येव । द्रव्यत्वं स्थौल्यसमानाधिकरणं न वेति संशयः । परस्य द्रव्यत्वे तत्प्रसिद्धिः। परमाणौ तदनुपपत्तिमाह --तथा हीति । एकः स्थूलोऽयमिति
न्यायलीलावती प्रकाश विवृतिः
वस्तुतः स्वभिन्नेत्यनन्तरं द्रव्यपदं पूरणीयमिति भावः । ननु परमा- णुविषयकत्वाभावेऽपि नावयविविषयकत्वं गुणादिविषयत्वेनान्यथासिद्धेरित्यत आह - तदन्येति । परमाण्ववयव्यन्याविषयस्येत्यर्थः । तदविषयकत्वं च तदविशेष्यकत्वमतो न रूपादि विषयकत्वेनासिद्धिः । नार्थान्तरमिति । गुणादिविषयतया नान्यथासिद्धिरित्यर्थः । सा चेत्यादि साध्ये स्थूलत्यादिहेतोर्वैयाधिकरण्यमाशङ्कयाह --अवयवीति । 'अभावः' अप्रसङ्गः । किं त्विति । आद्यद्रव्यपदं समवायिपरमतो न द्रव्यपदवैयर्थ्यम् । न वा वृत्तिपदस्याश्रितत्वमात्रार्थकतया कालमादाय ह्यणुकेऽतिप्रसङ्ग इति भावः । द्रव्यपदं च त्रित्वादावतिप्रसङ्गवारणाय ।| द्रव्यत्वमिति । स्थौल्यमत्र बहुसमवेतत्वमात्रम् । द्रव्यत्व इति । द्रव्यवत्व इत्यर्थः । परस्यावयव्यनभ्युपगमेन यथाश्रुते विरोधात् । केचित्तु सामान्यविप्रतिपत्तेः प्रागेव दर्शितत्वात् प्रकान्तत्वेन स्थल पृथि-
- ↑ ज्ञानाकारविशेषमेव स्थौल्यप्रत्ययोऽवगाहत इत्यस्त्वित्यत आह - तदन्येति । वाह्यान्येत्यर्थः। नीत्वत्वादेरिव स्थौल्यस्यापि वाझाकारत्वेनानुभवादिति भावः । परममहानेव स्थूलप्रत्ययविषयो ऽस्तु इत्याशङ्कपा कार्यद्रव्यान्याविषयस्येति शेष इति प्राभाकरः । इति दीधितिः ।