पृष्ठम्:न्यायमकरन्दः.djvu/५६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


मू०-येोप्येवं परस्पराश्रयपरिहारोभिहितः-(प्राथमि कप्रतियोग्याद्यवभासानपेक्षायामापातजायां* संविदि भे दस्य भेदिनोश्चापय्र्यायेणावभासे सत्येकस्मादपरस्य भेद् मुल्लिखन्ती सविकल्पिका संविदुत्पद्यत) इति, सोप्य विचारितरमणीयः, निर्विकल्पिकापि प्रतीतिः न प्राथ मिकप्रतियोग्याद्यवभासमन्तरेण भेदाध्यवसायिनी प्रत्य क्षत्वात सविकल्पकवद् इत्यप्रत्यूहमनुमानोत्पत्तेः, एवं च (निर्विकल्पिकायास्तु संविदो न तत्पूर्वतायां नि बन्धनं किंचिदुत्पश्याम) इत्यपास्तं, प्रमाणानबन्धनत्वा टी०-तीतिः ? इति। ननु किमत्र निर्विकल्पकप्रतीतेः प्रतियोग्यादिप्र तीतिसापेक्षत्वं साध्यते किं वा प्रतियोग्यादिप्रतीत्यभावे भेदाग्रहत्वं, नाद्यः पूर्वपूर्वनिर्विकल्पापेक्षत्वेनानवस्थापाताद्, अपसिद्धान्तप्रसङ्गा च,निर्विकल्पकस्य भेदग्राहकत्वेन स्वयमनभ्युपगमाद् “आलोच्यते वस्तुमात्रं ज्ञानेनाऽऽपातजन्मना' 1 इति ब्रह्मसिद्धिकारै रुक्तत्वादू, नापि द्वितीयो भागे सिद्धसाधनत्वात, स्तम्भः कुम्भ इति निर्विकल्पकशानस्य भेदग्राहकत्वनानभ्युपगमाद् इति गङ्गापुरीया इति चेद्, मैवं,द्वितीयपक्षस्यैव स्वीकाराद्, नच तत्र सिद्धसाधनता दोषः, सर्वनिर्विकल्पकस्यापि भेदग्राहकत्वेन परैरिष्टतया तत्पक्षी

  • भापातजाया सविवि = निर्विकल्पके ज्ञाने ॥

आपातजन्मना = निर्विकल्पकज्ञानेन वस्तुमात्रमेव विषयी क्रियते नतु तद्गत