पृष्ठम्:न्यायमकरन्दः.djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८ न्यायमकरन्दे मृ०-मेवहेि भेदो भेदहेतुर्वा यद्विरुद्धधर्माध्यासः कार णभेदश्च' इति, परस्परापेक्षायां स्वभावव्यवस्थितौ नैकस्याप्यात्मलाभः, तथा च न प्रतीतावप्यन्योन्या पेक्षासंभविनी, सामान्यात्परस्पराश्रयदोषस्य । अथै क्रियायान्त्वन्योन्यापेक्षानियमो नास्येव नीलादीनाम्, अन्यथा नीलेोपादित्सोर्निखिलोपादानप्रसङ्गाद् । नचा पेक्षायाः पुरुषधर्मस्याचेतनेष्वस्ति सम्भवो येनामी परस्प रापेक्षा भवेयुर्भावाः, तत्सिद्धमेतन्न भावात्मतायामन्या पेक्षा भेदस्येति ॥ किञ्चनीलभेद्येोरैक्ये नीलं भिन्नंनीलस्य भेद् इति टी०-वस्तुस्वरूपत्वे दोषमाह -“नखलु” इति, वस्तुस्वरूपानु वादेन भेदावशेषे दोषमाह -* तद्पेक्षायाम्” इति, कारणभेदः = सामग्रीभेदः, अन्यथैकस्मिन्नपि काय्यें कारणभेदेनानैकान्याद् । द्वितीयपक्षे दोषमाह-“परस्परापेक्षायाम्” इति, नीलापेक्षया पीतस्य स्थिातेस्तदपेक्षया नीलस्येति परस्पराश्रय इत्यर्थः, । तृतीये कल्पे दोषमाह-* तथाच” इति, चतुर्थे दोषमाह-* अर्थक्रि यायाम्” इति, फलस्य हेत्वपेक्षायामप्यहेत्वपेक्षा नास्तीत्यर्थः तथात्वे दोषमाह-* अन्यथा' इति, अङ्गीकृत्यापेक्षामवोचाम सैव तु नास्तीत्याह-*नच' इति, भेदस्य वस्तुना विशेषणविशेष्य भावसंबन्धस्य च प्रतीतेः, वस्तुवाचकपदेन भेदपदस्य सहप्रयो गाञ्च न स्वरूपं भेद इत्याह- । “किञ्च' इति, । भिन्नम्-इति