पृष्ठम्:न्यायमकरन्दः.djvu/३९२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


न्यायदीपावलिः। श्वविद्यवशादविचारितरमणीयोऽयमतदाकरावभास इत्यवदतम् । तव नाप्राजक इति स्थितम् । नापि विरुद्धः। साध्यविपर्ययाव्याप्तत्वात् । ननु दृश्यत स य87 व्याप्तेति प्राभाकरः । सत्यम् । तमपि दुराचरमख्यातिनिरा करणेनाग्रे निर्भीथि६५मः। नाप्यनैकान्तिकः। व्यभिचारासम्भव त् । नचात्मनि सस्येऽपि दृश्यतास्तीति वाच्यम् । तस्याऽपराधीनप्र काशत्वात् । तदेव कथं, ममेदमनुकूल प्रतिकूलमिति चा विज्ञानस्या वच्छिन्नप्रकाशत्वेनावच्छेदकारमप्रकाशनान्तरीयकत्वात् । तस्य च मानसवेदनीयताय वृत्तिविरोधत्संवित्कमेतमन्तरेण चाऽपरोक्ष त्वस्य संविदधीनप्रकाशताविरोधात् संवेदनवत्स्वसंवेदनतासिद्धः । विस्तृतमेतदन्यत्र । नेह नानेति च प्रतिपक्षोपाधौ औतनिषेधारमनो बाधद विद्या निवृत्तेरप्यलीकत्वादात्मातरेके तादात्म्ये तूक्तयुकेर्न तयाऽप्यनैका न्तिकत्वम् । स्यान्मतं व्यतिरेकासिद्धया सन्दिग्धव्यतिरेकोऽयमनैकान्तिकः ताभेदः। तथाहि न तावन्नरविषाणे व्यतिरेकनिश्चयः। तस्य दृश्यत्वे व्यतिरेकाभावात् । अदृश्यत्वे तदनिश्चयात् । नात्मन्यप्यत एव । अ धिकश्च दृश्यत्वेऽपसिद्धान्तः। नचोपाधिविधूननेन व्यतिरेकावगतिः। अहश्योपाधिविधूननस्याशक्यत्वात् । न च विपक्षे बाधक। व्यतिरे काधिगतिः । स हि भवन्नुपाधिकोटौ, तदयत्तव्यभिचरक, वा भवेत । अदृश्योपधावविरोधान्नग्रिमः कल्पः। नाप्यहत्य व्यभि चरे विरोधानुपलम्भदन्तिमः। सम्बन्धाभावः सत्यस्य दृश्यतायां बाधक इति चेदू.नैवमपि । स्वदृश्यनपपतेः । तथा सति वृत्तिविरो ध इति चेन्न । स्वसंवेदनसवेदनश्रयणात् । न हि स्ववृत्तिव्यतिरेकी स्वसंवेदनार्थः । स्वयं उ तत्सदनं चेत्यङ्गीकारे वेदनान्तरवेद्यताय अविरोधात् । स्वस्य संवेदनमित्यश्रयणे तच्चेत् स्वयं स्वत्मनि वृत्यापत्तिः। अन्यच्चदपराद्धान्तः । स्वसंवेदनं संवेदनमिति ’ च सः मानाधिकरण्यानुपपत्तिः । स्त्रम् आर्मीयं सवेदनं यस्येत्यभ्युपगमे घटस्यापि स्वसंवेदनतापनेः । संविदूविशेषणवैय्यर्थम । तस्मात् स्वस्य स्वयमेव संवेदनमिति स्वसंवेदनार्थ. । तथाच सत्यं स्यात् स्वसंवेदनत्वाद् इश्य चेति, न विरोधः । तेन विपक्षे बधकापि न