पृष्ठम्:न्यायमकरन्दः.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४ त्यायमकरन्द मू०-जननं व्यापारः सम्भवति, तद्धि जातस्य भवेद अजातस्य वा, नतावज्जातस्य, तस्य जन्मासम्भवाद्, नी खलु जातं जन्मना युज्यते,नाप्यजातस्य जन्म व्यापा सः, व्यापारवत्समवेतो हि सः, नचासन्नाश्रयः, समसम ययोरेवाश्रयाश्रयेिभावनियमोपलम्भाद् , इति । मैवं, न खल्वस्यास्तत्त्वतः कारकतामर्थावग्रहे सङ्गिरन्ते येनाय मुपालम्भः, कुर्वाणं हि काय्र्य कारकं, न चेयमर्थाश्रयं कुरुते कंचनातिशयं, प्रध्वस्तानागतयोस्तद्योगाद् नह्यस्ति सम्भवः प्रध्वस्तोऽप्रत्युत्पन्नो वा धर्मी धर्म श्वास्य प्रत्युत्पन्न इति, तस्माद् रूपमेवास्या अर्थाव टी०-वेत’ इति व्यापारयोग्यताविशिष्टो धर्मी लक्ष्यते, अन्यथा व्यापारव त्यङ्गीकारे पुनरात्माश्रयादिदोषप्रसङ्गाद्, । कारकत्वं हेतुमसिद्धत्वेन दूषयति –“नखलु” इति, कारकत्वाभावं दर्शयितुं कारकलत्व “कुर्वाणेहि' इति, कुर्वाणमित्यत्र व्यापारवत्त्वे सति इ तिविशेषणमवगन्तव्यम्, अन्यथा व्यापारेतिव्याप्तिः, तेन व्यापारव त्कारणं कारकमिति लक्षणं फलतीति भाव । बुद्धेरपिकाय्यैकरत्वम स्तीति तत्राह-“नचेयम्’ इति, तर्हि विज्ञानमथै गृह्णाति, ज्ञा नेनार्थः प्रकाश्यत इति कथै भेदव्यवहारइति तत्राह

  • अभप्रत्युत्पन्न = अनागतः,-प्रत्युत्पन्न = वर्तमान ।