पृष्ठम्:न्यायमकरन्दः.djvu/३६४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


३६७ न्यायमकरन्दे आनन्दबोधयतिना निधिना गणाना मानन्दहेतुरकलङ्कधियां व्यधायि ॥ १ ॥ सेवन्तां मतिमन्तः सरस्वतीं चन्द्रिकां विशदाम् ॥ आनन्दबोधकृतिनः शमयन्तीमान्तरं तिमिरम् ॥२॥ आनन्दबोधसुकवेः सूक्ति के नाभिनन्दन्ति ॥ नो चेदरुचिनिदानं मत्सरसंज्ञे महपितम् ॥३॥ इति श्रीमदान्दबोधभट्टारकविरचितो न्याय मकरन्दः समाप्तः । शुभं भवतु । टी-झपकालङ्कारेण नामकथनपुरःसरं प्रन्थकरणमुपसंहरति-‘‘नने ति । नानानिबन्ध एव कुसुमानि तेश्यः प्रसव उत्पतिर्यस्य स त थोक्तः। स चासाववदतन्यायापदेशमकरन्दकदम्बक’। न्यायापदेशो न्यायाभिधानो मकरन्दस्य कदम्बकः समूहः । कीटाद्युपद्रवपर्युषि तादिदोषराहित्यमितरमकरन्दकदम्बेऽवदतत्वम् । अत्र पुनरुपाधि बाधितत्वप्रतिकूलतर्कपराहवैधुर्यमनुकूलतर्कसद्भावश्वावदतत्वं, तादृशो मकरन्दकदम्बो गुणानां निधिना व्यधायि विहित इति या चत । कुसुमाम्यपि गुणानां निधानानि । अयमपि गुणानां “श्रुधूषाश्च वणीच ग्रहणं धारणं तथा। ऊहापोहार्थविज्ञानं तत्स्वहानश्च धीगुण” इति प्रतिपादितानां निधिः। तेषां ग्रन्थकरणोपयुक्तत्वात्केषां किप्रयो जनहेतुनयाऽयं ग्रन्थो विहित इत्यत आह- आनन्दहेतुरि ॐ ति। अकलङ्धियां सन्देहविपर्यासासूयादिकलङ्करहितबुद्धीनां भु जाश्रमाणनमानन्दहेतुरित्यवगन्तव्यम् । लोके मकरन्दस्य भ्रमरानं बुधियामानन्दहेतुरुवप्रदर्शनेन च ग्रन्थस्य निर्जुष्टना प्रतिपादितेति मन्तव्यम् । दुष्टस्य तदनन्दहेतुस्वभावात् ॥ इति श्रीमस्परमहंसपरिव्राजकाचर्यज्ञानोत्तमपूज्यपादशिष्येण श्रीमद्धिसुखेन मुनिना कृता न्यायमकरन्दटीका सम्पूर्णं ॥ GE