सामग्री पर जाएँ

पृष्ठम्:न्यायमकरन्दः.djvu/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अविद्याश्रयवलोचनम् । ३५१ मू ०—तपो विद्या च विप्रस्य निःश्रेयसकरं परम् । इति । तस्माद्वाचनिकसमुच्चयानुसारेण कर्मप्रतिषेधवचनानां केवलकर्मविषयतेति साम्प्रतम् । करमात्पुनः समुच्चयवचनानां पारम्पर्यसमुच्चयार्थत्वं लाङ्गलभोजनयोरिव तृौ न गृह्यते, मोक्षस्य ज्ञानं साध नं, कर्माणि तु पापापाकरणद्वारेण ज्ञानसाधनानीति । यदपि किञ्चिकेवलकर्मणा मोक्षकारणतावचन, त देतदपि लाङ्गलेन वयं जीवाम इतिवत्पारम्पर्येणन्वयं लक्षयतत । निषेधस्य प्राप्तिसापेक्षतया दुर्बलत्वादिति चेत्, मैवम्, टी-उक्तवचनानां पारस्पयंसमुच्चयतयाऽप्युपपत्तं न तुल्यवत्त्वसमुच्चय इत्यभिप्रेत्य पूर्वत्रादिमत दूषयति सिद्धान्ती-‘‘कस्मात् ' इति, लाङ्गलं सस्यनिष्पचिद्धर भोजनसाधनं, भोजनं पुनः साक्षयतृप्तिसा धनमेत्यथ । प्रकृते समुच्चयप्रकरमाह -‘ मोक्षस्य ’” इति, कथं तर्हि कर्मणैव सिद्धिमित्यादि केवलस्य कर्मणो मोक्षसाधन मत्ववचनमिति तत्राह-“ यदपि ” इत, परम्परा समुच्चयप्र तिपादकवचनविरोधादन्धन्तमो न कर्मणेत्यादिकेवलकर्मनिषेधवचन विरोधाच्च तदपि पारम्पर्येण मोन्वयं लक्षयतीति भवः। प्राप्तिपूर्वकत्वात्प्रतिषेधस्य प्रत्यक्षाद्यविषयतया च केवलकर्मणः शस्त्रेणेव मोक्षसाधनत्वप्राप्तेरुपजीव्यविरोधचन्निषेधो दुर्बल इति केत्रवकर्मवादी शङ्कते-** निषेधस्य ” इति, प्रतिबन्दीग्रहणेन परिहरति सेवन् -‘ मैवम् * इति , अतिरात्रे षोडशिनं ह•