पृष्ठम्:न्यायमकरन्दः.djvu/३१४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


३१० न्यायमकरन्दे मू•-स्यादेतत्-तावको जीवात्मनः परस्मादभेद एव भेदः पुनरनाद्यविद्यधीनः तथा च न श्रुतिविरोधःना प्यविद्याया आश्रयाभावः, तस्या जीवाश्रयत्वादिति, । तदेतन्न मनीषिणः श्रद्दधते परस्पराश्रयापाताद् अविद्यधीनो जीवविभागो जीवाश्रया चाविद्येति, । योप्याह नाविद्यायां परस्पराश्रयदोषो नहि मायायां काचिदनुपपत्तिरिति, तस्य मुक्तानामपि सा स्यादनु पपत्यभावाद्ब्रह्मणश्च सा किं न स्यादनुपपत्यभावादेव,। यद्युच्येत न सा मुक्तानां भवति, नापि परिकल्प्या कल्पकाभावात् मुक्तताब्याघाताचतथा ब्रह्मणोपि वि टी-पक्षछयदोषपरिहारमाशङ्कते -“ स्यादेतद्” इति, । तथापि कथमुकदोषपरिहार इत्यत आह-* तथाच ” इति, । विरोधित्वेन भ। अनिष्ठत्वानुपपतfचाश्रितैवाविश जीवभेद मापादयतीति वाच्य तयाच परस्पराश्रयदोष इति परिहरति « तदेतद् ” इति, । अनुपपत्तेरलङ्कारत्वाद्यमदोष इतिशङ्कते-“ याप्याह इति, । अतिप्रसङ्गन दूषयति-“ तस्य ’” इतेि, । दूषणस्तर माह-“ ब्रह्मणश्च ” इति, । अनुपपन्नस्य प्रतिभासानुसारिशदधिचा जीव एवेति शङ्कते यद्युच्येत ति, । अभानेपि परिकल्प्यतामिस्यत आह ‘‘ नापि '” इति, । न केवलं कल्पकाभावादपितु विरोधादशी स्याह- मुक्तता” इति, । अस्सु तर्हि अहणीत्यत आह-“तथ' १; ७ १ 9 6B 99 9