सामग्री पर जाएँ

पृष्ठम्:न्यायमकरन्दः.djvu/३११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मोक्षनिरूपणम् । ३२७ सू०-तद्गकालेपि च कर्मान्तरप्रसरो दुर्निवारः, नच नैवायं काम्यनिषिद्धं कुरुते मुक्षुरित्यपि साम्प्रतं, प्रा मादिकपापसन्ततेः सुनिपुणानामप्यपरिहार्यत्वात्, त फलभोगेनैव तस्यापि प्रक्षये तद्गकालेपि कर्मान्तर प्रसर इत्यनवस्था । स्यादेत, निश्शेषकर्माशयक्षयस्तु शमदमब्रह्मचर्याश्च ङ्गकेनात्मज्ञानेनापुनरावृत्तये विहितेन, ज्ञानविधौ चापराएँ नियोज्यविशषणमपुनरावृत्ती रात्रिसत्रवदिति, तदप्य लीकं, त्रिविधस्याष्यात्मविज्ञानस्य विधिगोचरतायाः सुनि पुणतरं निराकरणाव, विद्यायाश्वविद्यानिवृत्तावन्वय टी०-भोगकालेपि विहितप्रतिषिचरणादशेषकर्मक्षयो म सम्भ तीसरह –“ तहग ” इति, । एताधिकारिशरीप्राप्ताधािति मन्तव्यं, अनधिकारितिर्यगादिरीप्राप्तौ कर्मान्तरप्रसराभावाद्, सुमुक्षणां काम्यनिषिद्धात्मककर्मकरणात्कथं कर्मान्तरसम्भव इयत आह-‘‘ नच ” इति, । प्रामादि कस्याप्युपभोगेनैव क्षयः किं न स्यादित्यत आह -* तत्फल ” इति, । विहितनादेवाशेषकर्मक्षयोपपरयमदोष इति पूर्वमेवाभि हितमिति शङ्कते-“ “ स्यादेतद् ” इति, । सिद्धार्थप्रामाण्यवाद बिशनविधिनिराकरणजैवमिति परिहरति-‘“ तदपि ” इति, । शनस्यापुनराहेितुस्वमनन्यलभ्यमिति तदयं विधिरित्या परिहरति -“ विद्ययाश्च ” इति, । १