सामग्री पर जाएँ

पृष्ठम्:न्यायमकरन्दः.djvu/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायमकरन्दे मू० -अचेतनत्वपर्यनुयोग इति चेन्मुक्तानपि कदाचिद् बध्नीयाद्, यादृच्छिकप्रवृत्तेर्नियामकानुपलम्भात्, । तस्मादचिचारितरमणीय एवायमपि पन्थाः । इदन्तु युक्तं । मन्यामहे-नित्यनिरतिशयसुखाभिव्य क्तिर्निःशेषदुःखोच्छेदलक्षणो मोक्षः स चाविद्यस्तमय एवेति, एकमेव खल्वपराधीनप्रकाशानतिशयानन्दरूपम नाद्यविद्यावनद्वितीयमपि सद्वितीयमिव संसारिकध मॅकलुषितमिव च जीवव्यपदेशं ब्रह्मावभासते, तथा च टी२-काश इत्याशङ् परिहरति-“ अचेतनत्वाद्" शति, । कुत इत्यत आह--‘‘ यादृच्छिक ” इति, । नच मायायाः सर्गप्रल यप्रवृत्तावपि समानमेतदिति क्षाख्यं, । विचारासहत्वेन स्वस्रगन्ध बैनगरादिवदपर्यनुयोज्यत्वादितिभावः। साद्भयमतनिराकरणमुपसंहरति-‘‘ तस्माद् ” इति, । सिद्धान्तमुपक्रमते- ‘‘ इदं तु !” इति, । अविद्याप्रतियोगिका भावस्य कथं भावरूपसुखाभिव्यक्तिरूपत्वं दुःखप्रतियोगिकाभा चत्वं च कथमस्यानभव्यक्तङखस्य चविद्यारूपतया तव झानधीनस्तदस्तमय एव तदुभयविरुद्धरूप इति परि हरति ‘‘ एकमेव ” इति, । नन्वविद्यानिवृत्तावपि संसारस्यानिवृत्तेः कथं मोक्ष इति व शङ्कां परिहरति -‘“ एकमेव » इति, । सर्व गतत्वेन निरवयवत्वेन च परिस्पन्दपरिणामयोरभवदविनाशि वेन चानित्यगुणाश्रयानुए रत्रचिचैव कर्तृत्वादिलक्षणः सं सर-इयर्थः ।