पृष्ठम्:न्यायमकरन्दः.djvu/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८४ न्यायमकरन्दे मू०-मिभावो निमित्तं, सर्वथोदासीनस्य स्वस्वामिभावे दृष्टान्ताऽप्रासिद्धेःविपर्यये तु राजादिदृष्टान्तः सुलभ एव, स्वत्वमप्युपकारकस्यैव भृत्यादेर्गुष्टं, नच बुद्धिर्भवन्म ते पुंसः स्वभावनिर्मलस्य कंचिदुपकारं कर्तुं शक्तेति । नर्तकीवदात्मानं दर्शयन्त्येवोपकारिकेति चेद्, नै तदस्ति, नर्तकी रङ्गस्य स्वात्मसाक्षात्कारं तत्प्रणाड्या चानन्दविशेष जनयन्ती भवत्युपकारिक, न च बुद्धिः पुंसः किञ्चिजनयति तस्य सर्वथाऽनुपकार्यत्वात् । टी०-इत्यत आह-‘“ विपर्ययेत ' इति,। चेतनस्य स्वामित्वं नि राकृस्य दृश्यस्य स्वत्वं निराकरोति-“ स्वत्वमपि “ इति, । स्वस्वकारपरिणता प्रकृतिरपि पुरुषस्योपकरोतीत्यत आह ‘‘ नच ” इति, । अपरिणामित्वेनोपजनापायधर्मशून्यतयाऽमनो बुद्धिजन्योपकराश्रयत्वं न सम्भवतीत्यर्थः। उपकारान्तरासम्भवेपि दर्शन मेघोपकार इति शङ्कते « नतेक इति, । स्वरूपभूतदशेनस्य नित्यत्वादागन्तुकदर्शनतजन्यसुखस्य पुरु षाश्रयत्वानङ्गीकाराद्विषमो दृष्टान्त इति परि हरति –“नैतदस्ति’’ इति । रङ्गशब्देन स्थानवाचिना स्थ लिनः सभासद लक्ष्यन्ने, दार्थ न्तिके वैषम्यमाह -‘ नच ” इति, । अनुपकार्यवा=अनाधेया तिशयत्वादिति यावत् । 9 99