पृष्ठम्:न्यायमकरन्दः.djvu/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मोक्षनिरूपणम् । २८१ मू ०-तस्माद्विज्ञानादिविशेषगुणोच्छेदलक्षणापि मुक्तिर्न यु क्तिमतीति सिद्धम् । मध्यमपरिमाणनिराकरणादेव च पुरुषस्य सततो टैगतिलक्षणोपि मोक्षः परास्तावकाशः । किञ्च-सततोद्भगतिर्न मोक्षोपयोगिनी, बहुलायास हेतुत्वात्प्रत्युतार्थपक्षनिक्षेपमर्हति । अक्षयशरीरादिलाभोष्ययुक्तिमानेव, अस्मदादिशरीर वत् क्षयिष्णुतानुमानस्य कार्यताविशेषेणाशक्यनिवार णत्वात्, । ४७वैशेषिकमोक्षनिराकरणमुपसंहरति-“ तस्माद्-” इति, । जैनमोहं निराकरोति-‘‘ मध्यमपरिमाण » इति, । मध्य मपरिमाणवेऽनित्यत्वप्रसङ्गाद् नित्यत्वस्वीकाराश्च सर्वगतत्वे सिद्ध सततोद्धगमनमयुक्तमित्यर्थः । पक्ष एवयमनुपपन्न इत्याह-‘‘ किञ्च ” इति, । माहेश्वरादिमोक्षे निराकरोति-‘“ अक्षय ” इति, । ‘विवादाध्यासितं शरीरमनित्यं शरीरत्वादस्मदादिशरीरव' इत्यत्र मुकव्यवस्थातिरिक्तकार्यतादेरनुपाधित्वाद्इत्यनुमानसम्भ बाद्, आगमानां च तदीयानाम – “ अतोऽन्यदार्तम् ” इति प्र यक्षश्रुत्या तदनुसरिपुराणव घ्यैश्च धाधितत्वादित्यर्थः । ३६