पृष्ठम्:न्यायमकरन्दः.djvu/२५७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


भवतेकत्वानधारणम् । २५३ मू•-र्हि प्रवर्तकत्वं विरोध इति स्यात्, तथाच यावतोक्तं विषयान्यथाभावविरोधी राग इति, तावतोक्तं प्रवर्तको राग इति, स्यादेवं चेत्, प्रसिद्धयैव भाषयाभिधीयतां किमप्रसिद्धाभिः कणाटलाटभाषाभिर्भाषते भवान् । विषयान्यथाभावविरोधी प्रवर्तक इति चोक्तौ त्याग्रतः । यापीयं परिभाषा संविदभिन्न विषयान्यथाभाववि रोधी राग इति, तत्रापि संविदभिन्न इति संविदेवेति चेदर्थः संविद्राग इत्युक्तं स्यात्, नचैवं सम्भवति । टी०-यत आह --तथाच ” इति, । कर्णाटछाटभाषाभिर् इत्यग्र सिद्धभाषोपलक्षणं प्रस्तुते तयोरभावाद्, भृज्जुवर्णनासम्भवे वक्रोक्ति रयुकेत्यर्थं । दूषणान्तरमाह—‘विषय” इति, । अन्यथाभावविरोधीति प्रवृ तिजनकत्वस्यैवोक्तत्वात्पुनःप्रवर्तक इत्युक्तौ पुनरूत्यापात इत्यर्थः । परिभाषान्तरं दूषयितुमनुवदति-‘‘ यापि ” इति। , विषयान्यथाभावस्य पूर्वमेव दूषितत्वादवशिष्टं संविदभिन्नत्वं दूषयितुमुपक्रमते-“ तत्रापि ’ इति, । संचिदभिन्न इति केवलाभेदो विवक्षितो, भेदसंसृष्टोऽभेदो वेति विकल्प्यायं दूषयति- संविदभिन्न ” इति, । अस्तु तथेत्य त आह-° नचैवम् ” इति, । जन्यजनकत्वेन भेदित्यर्थं,ः। ।