पृष्ठम्:न्यायमकरन्दः.djvu/२५४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


२५० न्यायमकरन्दे मू०-षयेरागस्यैवाभावःस खलु सत्तया प्रवर्तक इत्युक्तम्। प्रवृत्यभावविरोधस्य प्रवर्तनाप्रयोजकतायां प्रवृ तौ व्यभिचारः, नच प्रवर्तनैव प्रवृत्यभावविरोधःप्र वृत्तौ प्रवृत्त्यभावविरोधेपि प्रवर्तनायामभावादित्युक्तम्,। ननु प्रवृत्त्युत्पादनेन प्रवृत्यभावविरोधः प्रवर्द्धना, तस्मात्प्रवृत्त्यभावविरोधे पदसामर्यमिति प्रवर्तनागो चरमेव तदुक्तं, मैवं, प्रवृयुत्पादनाया एव प्रवत्तेना त्वाद्विरोधविशेषणायोगात्, तस्मात्प्रवर्तनाया लिड्डाः दिपदगोचरभावेपि न प्रवृत्यभावविरोधस्य तद्भावः । टी-रागस्याभावादप्रवृत्तिरिति कि नियामकमित्यत आह-“स- खलु ’ इति । असति विरोधिरागादिप्रतिबन्धे सतयैव रागः प्रवर्तको न पुनश्नततयेत्युक्तमित्यर्थः। विरोधस्य व्यभिचारित्वाच्च न प्रवर्तनाप्रयोजकत्वमिस्याह प्रवृत्त्यभाव ” इति, । माभूद्विरोधस्य प्रवर्तनां प्रति प्रयोज कत्वं तत्स्वरूपमेव तर्हि स्यादित्यत आह--‘‘ नच ” इति, । त शुभेचरत्वान्न तत्वरूपमेनं भवः । ननु प्रवृत्त्यभावविरोधमात्रं न प्रवत्तेन किन्तु तद्विशेष इति श हुत -‘“ ननु प्रवृत्ति ” इति, । प्रवृयुत्पादनस्यैव प्रवर्तनारू पत्वात्तस्य चाव्यभिचारातेनविरोधस्य विशेषणं न युक्कमिति प रिहरति--‘ मैवम् ” इति, । प्रवृत्त्युत्पादनेन प्रवृत्त्यभाववि रोध इति प्रवृत्युरपादनस्य विरोधं प्रति विशेषणत्वायोगादित्यर्थः। उक्तविरोधवानेव लिङ्गशब्दवाच्य इति निराकृतमेव पक्षे पुनः शङ्कते दूषणान्तरं वक्तुम् -“ प्रवत्यभावविरोधी ” इति, ।