पृष्ठम्:न्यायमकरन्दः.djvu/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४६ न्यायमकरन्दे मू०–वर्तकभेदे सिद्ध शक्तिककल्पनगौरवपरिहायानुवृच प्रेरणामात्र एव लिङादिसङ्गतिराश्रयणीया, नास्ति प्रवर्तकभेदः, समीहितसाधनतैव तु सर्वत्र प्रवर्चिके त्युपपादितं, तथा च कुतः प्रेरणामात्रे सङ्गतिग्रहप्रसङ्गः कुतो वा लौकिकविशेषासम्भवान्निर्विशेषसामान्यास भवाच्च प्रागुक्तपरिपाट्या शब्दव्यापारस्य विशेषता श्रयणता, } नच कोपि व्यापारः शब्दस्य निरूप्यत इत्यधस्ता दुपपादितम्, । अभेधाशब्ददृष्टान्तवैवं प्रत्यूढः । समीहितसाधनताबोधकत्वेनैव चान्ततः प्रवत्ये टी-हेतुतया ऽनेकशक्तिकल्पनाप्रसङ्गाभावात् प्रेरणामा सङ्गल्यभा वेन तदश्रयतया न शब्दव्यापारस्य प्रवर्तकत्वमङ्गीकरणीयमित्यर्थः। अमूर्तत्वादचेतनत्वात्पडिस्यन्दप्रयत्नयोरसम्भवादन्यस्य चानि रूपणाद्यापार एव शब्दे 'न सम्भवतीत्यपि कवादे निरूपितम त्याह-‘‘ न च कोपि ’ इति, । व्यापाराभावादेवाभिधशब्ददृष्टान्तो नवतरतीत्याह--‘‘ अ भिधा ” इति, । प्रवृत्तिविषग्रस्य समीहितसाधनताबोधकत्वेन शब्दव्याफरस्या सुविधेयत्वे समीहितसाधनत्वमेव प्रवर्त्तकप्रयोजकमुक्कं स्यादित्याह ‘‘ समीहित ” इति, }