पृष्ठम्:न्यायमकरन्दः.djvu/२२४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


२२७ न्यायमकरन्दं मू००ः –नच नियोग एव चिकीर्षागोचर इति युक्तम्,असुखस्याऽ सुखसाधनस्य च तदभावासम्भवाद्, अतः स्वभाव वैपरीत्यासभवान्न नियोगार्थता स्वर्गस्य सम्भविनी । न खलु । प्रचण्डभास्करकराभिसन्तप्तशरीरस्योपक तुमुपधीयमानो दहनस्तदनुकूलतामाचरतीत्यलं प्रसङ्गन। किंचासत्यामप्याशुतरविनाशशीलायाः क्रियायाः फ लानुकूलताऽसम्भवेन साध्यस्वर्गविशिष्टनियोज्यान्वय योग्यतायां कथमनवसितसङ्गतिको लिङादिरपूर्वमेव बोधयेद्, । टी-प्राधान्यं चिकीर्षागोचरत्वेनेत्यत आह —‘‘नच ’ इति, । नच नियोगस्यपि स्वर्गसधनत्वेन चिकीर्षागोचरत्वं तथासति प्राधा न्यभङ्गपातात् । नित्यनैमित्तिकनियोगे चिकीर्षाऽभावप्रस ङ्गाश्चेति भाव, । स्वभावविरोधेन तादथ्यभावे निदर्शनमाह-"नखलु” इति, क्षणिकस्यापि स्वव्यापारद्धरण स्वर्गसाधनत्वादू भावार्थस्य नि योज्यान्वययोग्यतस्तीत्युक्तम्,अधुना मदन्वययोग्यता तथापि कथ मगृहीतसंबन्धस्य लिड्डादेर्नियोगाभिधायित्वमस्याह—‘‘ किं च’’ इति, नियोज्यान्वयाभावे फलानुकूलत्वासम्भवो हेतुस्तत्रहेतु-आ- शुतरविनाशशीलाया इति,