पृष्ठम्:न्यायमकरन्दः.djvu/२२२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


v१८ न्यायमकरन्दे मू५- यदि मन्येत काम्येषु कामनिवन्धना प्रवृत्तिरिति, तदसत्,परस्पराश्रयापातात् , कामनिमित्तप्रवृत्तिविषय त्वत्तदुपायतासिद्धिः, तदुपायत्वे च सिद्धे तन्निबन्धना तत्र प्रवृत्तिरिति, । यत्पुनरपूर्वस्य प्राधान्ये गर्भदासस्वामिनिदर्शनं तदपि न शोभते, हौ हि तत्र प्रयत्नौ चेतनसमवांयिनौ, तत्र स्वामिनः प्रयत्नः स्वार्थमुदिश्य गर्भदासोपकाराय प्रवर्तते, गर्भदासोपि स्वाभिलषितसिद्धय एव स्वाम्यर्थे प्रेवर्तते, गर्भदासस्थानीयश्चायं नियोज्यः कामी नि टी०-भवतु नित्यनैमित्तिकयोर्नियोगेनापि प्रवृत्ति काम्ये तु नैवमिति शङ्कते -“ यदिमन्येत ” इति, । तदेव दर्शयति-‘‘ काम निमित्ता ” इति, नियोगस्य कामनिमित्तप्रवृत्तिविषयत्वात्स्वर्गापा यतामिद्धिस्तदुयायत्वेन च निग्रोगस्यक मनिमित्तप्रवृत्तिविषयत्वमि ति परस्पराश्रयःनचेष्टसधनत्वपक्षे तुल्यय दोष इति वाच्यं कामना निमित्तप्रवृत्तिविषयतया भात्रार्थं स्येष्टसाधनत्वानङ्गीकरा , लिड्डा दिप्रययैरेव तस्येष्टमधनवेवगते तत्कामस्य तत्र प्रवृत्त्यभ्युपगमादू, नचैतत्परमतेपि समान, लिङादिप्रत्ययैरपूर्वस्य स्वर्गसाधनत्वप्र तीतेरनयुपगमादिति भाव,। गंभेदमस्खमानदशेने विघटयति-“ यत्पुनर्” इति, तयोर्विषयं विभजते-- तत्र स्वामिन ” इति, । ततः किमित्यत आह-‘‘ गर्भदासस्थानीय ” इति, । ८८