पृष्ठम्:न्यायमकरन्दः.djvu/२१८

From विकिस्रोतः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


२१८ न्यायमकरन्दे मू०-कथमसति व्यापारवत्यवान्तरव्यापार इति चेद्, आग्नेयाद्यवान्तरव्यापाररूपपूर्वेपि समानः पर्यनुयोगः । । अथानपेक्षागमावगतसाधनभावानामाश्रेयादनामस हभुवामसमानकालान्यप्युत्ययपूर्वाणि व्यापार इत्यभि धीयेत, तुल्यमिदमन्यत्रापि, अभिनिवेश एवायुष्मतः परिशिष्यते । नचैवं न फलसाधनभावः क्रियायाः किन्तु साधक नसाधनतैवते साप्रत, फलप्रवृत्ताया एव तस्यास्ता टी०–भावयेद्' इति वाक्यार्थ’ सम्पद्यते, तत्रापि क्षणिकस्य तमनुप परपूर्वमवान्तरव्यापार इत्यवगन्तव्यम् । । असस्याधारे कथं तशापार इति शङ्कते-“ कथम् ” इति, शुरूमतेपि तुल्यमेतदिति परिहरति- “ आग्नेयादि ” इति, । ननु तज्जन्यस्तजन्यजनको व्यापार इति न पुनस्तदाधारस्तेना श्रेयादीनां प्रमाणसिद्धसाधनीभावेन तदुपपादकनामान्तरापूर्वा णामसमानकालत्वं न विरुध्यत इति शङ्कते - ‘‘ अथानपेक्ष = इति, । समानमेतदस्मन्मतेपीति परिहरति -‘“ तुल्यम् ” इति, । इदमपि प्रौढवादेन, अस्मन्मते यागजन्यापूर्वस्य चेतनाधारतया क्रियजम्येश्वरप्रसादस्य तन्निष्ठतया घावस्थानमवान्तरव्यापारस्य स स्भवति, न पुनः परमते, तथाऽनङ्गीकारादूअपतन्भुस्याहृष्टवानु पपत्तेरित्यवगन्तव्यम् । व्यापारस्य तर्हि साधनत्वमव्यवहितपूर्वभावित्वान्न पुनः क्रि . यायास्तेन व्यवहितत्वादित्यत आह-‘‘ नच ” इति, । न व्यापा 9