पृष्ठम्:न्यायमकरन्दः.djvu/२१०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


२०६ न्यायमकरन्दे मू०—स्यादेतद्-अस्ति तावन् ममेदं कार्यमिति धीः, नचेयं कृतियोग्यतामात्रमवलम्बत इति साम्प्रतम् । सत्यामपि तस्यामनिष्टतत्साधनयोरस्याः कदाचिद् प्यनुपलम्भाद्, नचास्याः श्रेयःसाधनतैव गोचर इति साम्प्रतं, नह्यस्ति सम्भवो यदेव समीहितं प्रति साधन न्तदेव कार्यबुद्विगोचर इति, भूतवर्तमानयोः सत्यामपि समीहितसाधनतायां कार्यधीगोचरभावाऽभावात्, त थाच फलस्याऽपि सुखस्य साधनतां विनापि कार्यता ऽवगतिरस्ति, शिशिरमरीचिमण्डलादौ च सत्यामपि समीहितसाधनतायां नास्ति काय्यैताधीरिति निवेदितम्, टी०-“स्यादेतद्’ इति, । एवं विधा बुद्धिरनुभवनिद्धेत्यभिप्रायः, तथापि कृतियोग्यतामात्रबिषयनायां सत्यां नातिरिक्तसाधनत्वमि त्यत आह-* नचयम् ' इति, । श्रेय.साधनत्वमव तर्हि विषय इत्यत आह-* न च ” इति, । किमतीनवर्त्तमानेष्टसा ? धनं तद्बुद्धेर्विषय. कि वाऽनागतमिति विकल्प्याद्ये दुणमाह

  • न ह्यस्ति ?” इति, । साधनत्वाभावेपि काय्र्यबुद्धिसद्

भावादपि न तस्य विषयत्वमित्याह-* तथाच * इति, । द्वितीयं दूषयति--* शिशिर ?' इति, । तर्हि फलमेव विषय इत्यत आह