पृष्ठम्:न्यायमकरन्दः.djvu/२०९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


मू०-वाऽधिकरोति, तथा च फलता तत्साधनता वा प्रधा नतेत्यभिहितं स्यान्नतु तदतिरेकिणी सा मनसाऽप्यनुभूयते। यदि मतम्-एकैकव्यभिचारेपि फले तत्साधने चा नुवर्तमानः प्रयोजनीभाव एव कृतिं प्रति प्राधान्यमिति । हन्ताभिलाषगोचरीभाव एव प्रयोजनीभावो न पु नस्तदतिरेकीति विधान्तरेणाभिलाष एव प्रवर्तक इत्यभिहितं स्यात, स च न फलमात्रगोचरो वि शिष्टप्रवृत्तिहेतुरिति तत्साधनगोचर एवाभिलाषस्तद् गोचरो वा साधनविशेषः प्रवृत्तिहेतुरित्यायातमर्थात सचायमस्मत्पक्ष एवायुष्मताप्यतिनिरूपणेन समर्थित स्यात, ॥ २०५ टी०-प्रमाणं दुषयति-“ नतुतदतिरेकेिणी ?” इति,। पफलतत्साधनयोरनुवर्तमानं प्रयेोजनत्वमवातिरिक्तमस्तीति श यदिमतम् ?” इति, उभयसंमतेच्छविषयतातिरिक्त प्रयोजनत्वमपि तत्र नास्ति तेन व्यभिचारस्तद्वस्थ इति परिहरति-* हन्त ” इति, । ननु ना भिलाषस्य प्रवर्तकत्वं फले ब्याभिचारादित्युक्तमत आह-* सच इति, । अर्थादू=अनुपपत्त्या, ततः किमायातमित्यत आह -* सच इति, । अतिरिक्त काय्यै सिसाधयिषुस्तद्विषयं तावत्साधयति ८४