सिद्धे सङ्गतिग्रहसत्त्वस्थापनम् । १६७ मू०—द्यत इति, तत्राप्येतदेव वक्तव्यं, काय्र्यान्वितगो चरषद्सामथ्र्याङ्गीकरणेपि काय्र्याणांभावार्थतदतिरेकेिणा मानंत्याद, माभूट्टहुविषयं पदसामथ्र्यमिति भावार्थ कार्यान्वितविषयमेव तदाश्रीयेतेति. । नच सङ्गत्यधिगमसमये भावार्थातिरेकेिण: कार्य स्याशक्याधिगमतया अप्रसक्ततया न तद्वद्यवछेदाय भा वार्थेन प्रयोजकं विशिनष्टीति युक्त, तदतिरेकिणीना मपि द्रव्यगुणव्यक्तीनां कार्याणां वहुलमुपलम्भात्, नो खल्वपूर्वस्यापि ताभ्यो विशेषःकार्यतायां विचारं सहते। टी०-प्रथमव्युत्पत्तिसमये च तस्याबुद्धिस्थतया तदूव्यवच्छेदाय विशे णानुपपत्तेरित्यत आह - *** नच ' इति, । कुतो न युक्तमि त्यत आह--* तदतिरेकेिणीनाम् ?” इति, िनयोगमन्तरेणापि भावार्थतिरिक्तकार्यस्य बुद्धिस्थतया तड्यच्छेदाय भावार्थविशेषणो पादानं युक्तमित्यर्थ । ननु साक्षात्कृतिसाध्यतया भाचार्थस्यैव कार्यत्वं न व्यक्तीनामतस्तद्व्यवछेदाय न बिशेषणोपादानमित्यत आह नोखलु ?” इति, नियोगस्यापि न साक्षात् कृतिसाध्यतया । कार्यत्वं तथा सति कृतिनियोगयोर्मध्येऽघटितसंघटकविषयप्रवेशा. नुपपत्तेः,तथाच शालिकानाथेनाभिहितं ‘कृतितत्साध्यमध्यस्थो या गादिर्विषयो मत , कार्ये संघटिताकारे कारणत्वेन संमत'इति, ‘व- भ्रा जुहोति’ ‘अरुणया क्रीणाति'इत्यादौ क्रियाव्यवधानेन नियोगव द्रव्यगुणयोरपि कार्यत्वमिति तद्यवछेदाय भावार्थविशेषणोपादाने तदतिरिक्तनियोगासिद्धिरित्यर्थः,।
पृष्ठम्:न्यायमकरन्दः.djvu/१७१
दिखावट