सामग्री पर जाएँ

पृष्ठम्:न्यायमकरन्दः.djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धे सङ्गतिप्रहसत्वस्थापनम् । मू०-तायुपगम्यत स कथ पारद्वष्टतत्प्रमादकारणपुत्रज न्मातिरेकेण कारणान्तरं परिकल्पयेत, न खलु संभ वत्येव दृष्टकारणेऽदृष्टकल्पना युक्ता, अतिप्रसङ्गात् यद्वोचदाचार्यवाचस्पतिः–“ एवंविधेपि विषये ह र्षहेत्वन्तरमाशङ्कमाना जननीजारशङ्कया स्वकीयमपि ब्राह्मणत्वं प्रति संदिहाना नाधिकारभाजो ब्राह्मणोचि तास क्रियास्विति कृतं मीमांसाभ्यासपरिश्रमेण तेषा यदपि केन चिद् विपश्चितोक्त-नच स्वाधिगततप्रिये टी०-रित्यर्थः ।प्रतिपन्न देवदत्तस्य प्रमोदहेतुपुत्रजन्म येन सतथा। कि मिति न कल्पयेदित्यत आह -* न् खलु ?” इति, । 'अतिप्रस ङ्गाद्' इति । प्रत्यक्षदृष्टगवानयनादिकाय्र्यव्यतिरेकेण काय्यन्तर परिज्ञानादेव प्रवृत्तिरिति तत्रापि शङ्का स्यादित्यर्थ, । दृष्टकारणसंभवेपि कारणान्तरपरिकल्पनया संदेहे सर्वव्यवहार विरोधः स्यादित्यत्र वृद्धसंमतिमाह-* यद्वोचद् ?” इति, ए वैविधेपि विषये=द्दष्टपुत्रजन्मविषये, हेत्वन्तरम=अद्दष्टं भूतभविष्य दादिकं, । पुत्रजन्मसुखप्रसवयोरुभयोरपि हृष्टत्वात्परिशेषावधारणानुप पत्तिरितिपूर्ववादिमतमुत्थापयति-“ यदपि ?” इति, । खेन व्युत्पित्सुनाधिगतं यदू देवदत्तस्य प्रियं पुत्रजन्म तस्मिन् पुत्रजन्मनि तस्य पितुः, तस्माद् वाक्यादू धीरिति विशेषावधृत्ति: संभवति पु त्रजन्मनः क्लप्तत्वादिति न वाच्यमित्यन्वयः, कुत इत्यत आह