पृष्ठम्:न्यायमकरन्दः.djvu/१५०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


न्यायमकरन्दे मृ०-इह खलु निखिलप्रमाणानां मायाशरीरत्वाविशेषेपि तत्त्वतो विषयवाधात्सांव्यवहारिकमेव प्रामाण्यं प्रत्यक्षा दीनाम्, अद्वैतागमवाक्यानां तु तद्विपर्ययात तात्विक मेव प्रामाण्यमिति साम्प्रतं दृष्टा च मायाशरीरेभ्योपि तत्त्वज्ञानोत्पत्तिर्वर्णदैघ्र्या तथाहि-वर्णहस्वदीघौद्योऽन्यधर्मा अपि समारोपि टी०-प्रथमश्लोकं व्याचष्टे-' इह खलु ?” इति, द्वितीयश्लोकं व्याचष्टे-* अद्वैत इति, तद्विपयर्ययातू=तत्त्वतोविषयवाधा भावादू, न च मायाशरीरत्वे प्रत्यक्षादिवद्विषयासत्यतापि स्यादिति वाच्यं–“ सत्यं ज्ञानमनन्तं ब्रह्म ?” इति, विषयसत्यत्वश्रु तिविरोधेन कालात्ययापदिष्टत्वातू, खरूपसत्यत्वाविशेषादेव च शु क्तिरञ्जतविज्ञानवत प्रत्यक्षादेरपि विषयसत्यता भवतोपि न स्यादू, अथ विषये वाधावाधाभ्यां तदूव्यवस्या, खरूपसत्यत्वाविशेषे निरंकु शाप्रसरे सापि भवत. कथं स्यात्, तथाभावे वा मायावादिना किम पराद्ध येन तत्र सा न भवेदिति भावः । मायाशरीरस्य तत्व प्रमितिजनकत्वमद्दष्टचरमित्यत आह-“ दृष्टाच ” इति, ख रूपतः सत्यस्यापि प्रमितिजनकत्वमदृष्टचरमिति पर्यनुयोगः सत्य वादिनोपि तुल्य एव तथापि सुहृद्भभावेन वर्णदैध्यदाहरणमि ति मन्तव्यं, ॥ वर्णदैध्यदीनां मायाशरीरत्वमुपपादयति- * इति, वर्णनित्यत्ववादे दैध्यदीनां वर्णधर्मत्वाभावाद्भिव्यञ्जक