पृष्ठम्:न्यायमकरन्दः.djvu/१४९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


आत्मनःसंविदूरूपत्वस्थापन । मू०-दोपादानायालं, न च नीलादीनामन्योन्यभेदोपि श क्यनिरूपण इति निवेदितं तस्मात् संवित्स्वरूपतायामात्मनो न दूषणं पश्याम , साच स्वयंप्रकाशेति सिद्धरा तद्रूपस्यात्मनः स्वप्रकाशता तथाच न तेनानैकान्तं प्राक्तनं साधनमिति सर्वनिर्मलम्। “मायामयत्वसिद्धौ च प्रपञ्चस्य प्रमाणतः, प्रत्यक्षादिप्रमाणानां प्रामाण्यं व्यावहारिकम्, ॥ १॥ अद्भरतागमवाक्यन्तु तत्त्वावदन्लक्षणम् । प्रमाणभावं भजते वाधवैधुय्र्यहेतुतः” ॥ २ ॥ टी०-इति बाच्यम्, उत्थितः शयनादद्यतनः श्वस्तनान्न भिद्यत इतेि वदविरोधादिति भावः । प्रमाणानां भेदाग्राहकत्वाद्विशेषणभदाप्य सिद्ध इत्याह-* नच इति, संविदूरूपत्वेपि कथं स्वप्रकाशत्व मित्यत आह- * साच इति, स्वप्रकाशत्वसाधनस्य फलमाह

  • तथा च ?” इति, ।

निखिलप्रपञ्चस्य मायामयत्वेन तन्मध्यपातिनां प्रत्यक्षागमादीना मपि तथात्वादद्वितीयब्रह्मस्वरूपासिद्धिः, आगमस्य प्रमाणत्वे वा प्रत्यक्षादीनामपि तथात्वं किं न स्यान्मायाशरीरत्वमानत्वयोरविशे रुषादित्यत आह-* मायामयत्व इति, सत्यपिमायाशरीरत्वेत त्वतो विषयवाधाव सांव्यावहारिकमेव प्रामाण्यं प्रत्यक्षादीनामि त्यर्थः । आगमेपि तर्हि तथा किं न स्यादित्यत आह - “अद्वैत इति, तत्त्वतो ि विषयवाधाभावाद्द्वैतागमस्य तात्विकमेव प्रामाण्य मित्यर्थः ।