पृष्ठम्:न्यायमकरन्दः.djvu/१३६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१३२ न्यायमकरन्दे मू०-यस्तु बूते मा भूदयं मानसप्रत्यक्षगोचरस्तथापि नासावपराधीनप्रकाश, इन्द्रियाद्यधीनासु सर्वार्थसं वित्सु स्फुरणाद्, न खल्वस्य क्रियाफलभाजोपि कर्मभावः, यतः स्वात्मनि वृत्तिर्विरुध्येत, । परसमवेतक्रियाफलशालि हेि कर्मेति कर्मविदः, टी०-सिद्धिर्, अहंप्रत्ययस्य देहव्यतिरिक्तात्मवादिभिः सर्वैरभ्युपग माद्, न चाप्रसिद्धाविशेषणत्वम्,एतदात्मविषयत्वस्य पुरुषान्तरनिष्ठं तदात्मविषयानुमानेपि सिद्धतया तद्भावस्यापि धटादिज्ञाने सि द्धत्वाद्, नचाहँप्रत्ययस्य ग्राहकप्रमाणेनैवात्मविषयतयैव ग्रहणा देतस्यात्मविषयत्वाभावानुमानं धर्मिग्राहकप्रमाण्वाधितमिति वा च्यं तथा सत्यहंप्रत्ययस्य देहेन्द्रियतदतिरिक्तात्मविषयत्वे वादिनां विप्रतिपत्त्यभावप्रसङ्गाद्, नचानात्मविषयत्वमुपाधिः, आत्मानात्म नच तत्रैव भवदनुमानस्यानैका न्तिकतेति वाच्यं तस्याप्यहूँप्रत्यस्य सम पक्षत्वाद्, नचानात्ममात्र विषयत्वमुपाधिः, पुरुषान्तरनिष्ठाहंप्रत्यये साध्याव्याः, तस्यैतद् त्म्यबिषयत्वाभावेप्यात्मविषयतयाऽनात्ममात्रविषयताभावादित्यर्थः । परिशेषसिद्धये निराकर्तु प्रभाकरमतमुत्थापयति-“धस्तु'इति एतन्निष्ठझानजन्यफलाश्रयतया घटादिवत्कर्मतापि स्थादित्यत

  • न खलु ' इति,।

विषयसंविद्वलेन प्रकाशमानस्यापिकर्मत्वाभावं दर्शयितुं कर्म लध्णमाह--- * परस्समवेत * इति, । क्रियाफलशाि लेल हि क न पूर्वोक्तपरिशेषसाधनाय च सन्निराकरण