पृष्ठम्:न्यायमकरन्दः.djvu/११

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


क्षेत्रज्ञभेदनिरासः । म०-नचैतत्सकलमप्यागमविरुद्धमिति साम्प्रतम्, आ गमस्याऽन्यार्थत्वाद्, ऐकात्म्यपराह्यागमःपरमात्मन ऐ क्यमाह ‘एकएवायं परमात्मा नानेके परमात्मानः सन्ति' इति, अथवैकमपि तत्त्वमभिन्नकालदेशमेवमात्मानेोऽपि नित्यविभुतयाऽभिन्नकालदेशा इत्यैक्यमुपचर्यते । तदेव मागमस्यार्थान्तरलब्धावकाशस्य नान्यथासिद्धरानमाना द्यपवाधने सामथ्र्यसंभव टी०-सकलमहाविद्यानुमान साधारणतया चास्य वचनीय त्वातू “शरीररात्मसंबन्धसंबन्धित्वाद्इति, शरीरसंबन्धित्वा दितिवा, आत्मसबन्धित्वादितिवा, उभयसबन्धित्वादितिवाऽभिधाने सत्ताद्रव्यत्वादिभिरनैकान्तिको हेतुस्तत्परिहाराय सकलविशेष णानि । नन्वागमस्य कथमन्यार्थत्वम् “एको देव' इत्येकत्वप्रति पादनपरत्वादित्यत आह “ऐकात्म्यपरोहि' इति । तटस्थपत्तां परमात्मनि सर्वभूतान्तरात्मत्वासंभवादपरितोषात्पक्षान्तरमाह“अः - थवा' इति, भिन्नानामेकत्वोपचारे निमित्तमाह “एकम्' इति, ननु श्रुतिविरोधे ऽनुमानमेववाध्येत न पुनरनुमानेन श्रुतिरित्याश डङ्क्य श्रुतेरनुमानेन स्वविषयप्रच्यावनन्यायमुपसंहृतिव्याजेनाह “तदेवम्’ इति । ‘सावकाशनिरवकाशयोर्निरवकाशं बलवद् इति न्यायादनवकाशामनुमानमव श्रतिमन्यययेदिति भावः । नचैवमन्यत्राऽऽदृष्टचरमित्याह--

  • पक्षे प्रवकारान्तरेण साध्येपसहारशालित्वे सति दृष्टान्त प्रकारान्तरेण साध्येप

सहारशालित्व महाविद्यानुमानत्वम्, स्पष्टाचेय रीतिस्तत्वप्रदीपिकायाम् । वादीन्द्रस्य कैौशलमधिकरणसिद्धान्तन्यायमूलमितिध्येयम् । “एको देव” इति मन्त्रे प्रत्यगात्मभिन्नस्य परमात्मन प्रतिपाद्यत्वे ऽभ्युपगम्यमाने (सर्वभूतान्तरात्मा) इति मन्त्रशष कुप्येतातो न तस्य परमात्मपरत्वमिति भाव ।