.
१० १
मू०-यतु यद् यथाप्रतिभासत’इत्याद्यभिहितं
तदंशाभ्युपगम यत्पुनर् ‘इदन्तामात्रापवाधादपि
एव,
वाधोपपत्तौ न तस्य रजतगोचरतोचिता गौरवात’ इति ,
तदप्यसारं, कल्पनायां हेि गौरवं दोषो, नचेह रजताप
वाधः कल्प्य, इदं रजतामिति प्रतिपन्नरजतानुवादेन
नेति तदपवाधात्मनो वाधानुभवस्य स्वयं सैविदितत्वाद्,
उपपादितश्चायमर्थः प्रागेवेति न पुनः प्रपञ्च्यते,
एतेन ‘प्रतिषिद्वेदकारास्पद्भावमर्थादान्तरज्ञानाकारम
वतिष्ठते' इत्यपास्तम् ।
योपि अतिव्यवहितस्यापरोक्षतानुपपत्तेरनिदन्त
यैव बहिरवस्थानप्रतिषेधः, सोप्यनुकूल एवास्माकम् ।
यदपि ‘अवश्याश्रयणीयत्वादपरोक्षसंविदैक्यस्ये,तितत्प्रा
गुक्तन्यायपरास्त, नचान्यथाऽपराक्षतानुपपातः, बाह्यता
वत्तदुपपत्तेः, |
टी०-हेतुरित्यर्थे , नन्वत्रापि कल्प्यते तत्राह “नचेह'
इति, विनिगमनकारणाभावदिदन्तामात्रापवाश्र एव किन्न स्पादिति
न वाच्य तन्मात्रम्यापवाधे रजतस्यान्तरतयावशाषादह रजतमितिः
प्रत्ययप्रसङ्गादिति भाव ।
“अनुकूलएवास्माकम्” इति-देशान्तरे सत्त्वस्यास्मा
भिः प्रतिषेधादित्यर्थः ।
प्रागुक्तन्यायपरास्तम् -बहिष्टवदसंविदाकारत्वेपि
इतेि
पृष्ठम्:न्यायमकरन्दः.djvu/१०५
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
