पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५७
प्रथमोऽध्यायः ।


किञ्च ।
 न तावद्योग एवास्ति शरीरेणात्मनः सदा ।
 विषयैर्दूरतो नास्ति स्वर्गादौ स्यात्कथं सुखम् ॥ ९५ ॥
यस्मादन्यथा नोपपद्यते ।
 नराभिमानिनं तस्मात्कारकाद्यात्मदर्शिनम् ।
 मन्त्र आहोररीकृत्य “कुर्वनिति' न नियम् ॥ ९६ ॥


दिसम्बन्धानुभवादित्याशङ्कयाह अहमेति । अहमाऽन्तःकरणेन सुखदुःखादेः सम्बन्धः सुख्यहमित्यादावीक्ष्यते न त्वात्मनेत्यर्थः । कुत आात्मना नेक्ष्यत इत्यत आाह पराक्त्वादिति । सुखादीनां साक्ष्यत्वेन पराक्त्वादात्मनश्च साक्षित्वेन प्रत्यक्त्वात्तेषां परायूपान्तःकरणपरिणामत्वादात्मधर्मत्वानुपपत्तेरित्यर्थः ॥ ९४ ॥

 भोगसाधनैः सम्बन्धासम्भवाद्प्यात्मनोऽभोकृत्वं तथा ह्यसङ्गत्वादात्मनोऽहप्रल्यालम्बनेन शरीरेणापि न सम्बन्धोऽस्ति । अहंप्रत्ययानालम्बनैः पुनर्विषयैः शब्दादिभिरतिशयेन नास्ति सम्बन्धः । तथा सति स्वर्गादौ कथमस्य सुखादिना सम्बन्धः स्यादित्याह । किञ्चेति । न तावदिति ॥ ९५ ।।

 एवै कत्रन्वयाधिकारान्वयभोक्त्रन्वयानामात्मनः परमार्थतोऽसम्भवादनाद्यविद्यावशाद्देहेन्द्रियादावहंममेतिामिथ्याभिमानवत एव कर्माधिक्कारो मन्त्रेण प्रदर्यत इति फलितमाह यस्मादित्यादिना । नराभिमानिनं नरत्वाभिमानिनं मनुष्यत्वाभिमानिनं । कारकाद्यात्मदर्शिनं कर्तृत्वाद्यात्मदशिनं । कर्तृत्वभोत्कृत्वप्रमातृत्वादिष्वात्माभिमानिनमविद्यावन्तमङ्गीकृत्य कुर्वन्नेवेत्यादिमन्त्रः कर्म कर्तव्यमभिधत्ते न निर्द्धयं नरत्वाद्यभिमानहीनं विद्यावन्तं “एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे इति श्रुतेरित्यर्थः । एवंप्रकारे त्वयि जिजीविषति नरे नरमात्राभिमानिनि । इत एतस्मात्कर्म कुर्वतो वर्तमानात्प्रकारादन्यथा प्रकारान्तरं नास्ति येन प्रकारेणाशुभं कर्म न लिप्यते कर्मणा न लिप्यत इति श्रुत्यक्षरयोजना ॥ ९६ ॥